________________
Shri Mahavir Jain Aradhana Kandra
Acharya
Kar
Gyanmar
पूर्व, पथा च तेनैव विहत्य तस्मात् । लोहावटाऽऽख्य नगरं ससचः, समाययौ श्रीजिनकीर्तिमरिः ॥२४९॥ चतुर्विधैः संघदलैः समेतं, सूरीश्वरं तत्पुरवासिसंघः । बेण्डाऽऽदिनानाविधवाद्यनादै-रानीतवान् सादरमात्मपुर्याम् ॥ २५० ॥ सोपाश्रयं प्राप्य सनीरमेघाऽऽ-रावाऽनुकारेण महास्वनेन । प्रारब्धवान् सद्गुरुरेष धर्मो-पदेशमानन्दकरं जनानाम् ॥ २५१॥ तत्राऽसको शील-तपः प्रदान-सद्भावमेदाचतुरथ धर्मान् । अदर्शयत्सजनसभ्यवृन्द, विस्तारपूर्व सदसि प्रकामम् ।। २५२ ॥
(भुजङ्गप्रयातम् )--विशेषप्रभावं पूर्वोपदेश, निशम्याऽतिहृष्टाः प्ररोमाञ्चिताऽङ्गाः । नरा नारिकायाः समस्तास्ततच, स्वकीय स्वकीय गृई तेऽधिजग्मुः ॥ २५३ ।। स्वस्वाऽवतारस्थलमागुरेवं, संघीयलोका अपि चाऽऽयघने । इत्थं द्वितीये दिवसे तृतीये, विश्रम्य तस्माद्विजहार संघः ॥२५४।। ( उपजातिः)-तदाध्यमाचार्यवरो पियासु, समस्तसंघ फलवर्द्धिपुर्याम् । प्रेषीन्मुनिश्रीसुखसागराऽऽदीन , सहाऽमुना तत्र निनीपया हि ।। २५५ ॥ अन्य विधि तेन तदैव सर्व, स कारयित्वा विससर्ज संघम् । स्वयं परावृत्य ततः सशिष्यो, लोहावट पत्तनमाजगाम ॥ २५६ ॥ पूर्वीयभागे पुरि तत्र जाटा-वासाभिधाने स हि मासमेकम् । स्थित्वा पुनस्तद्विसनोयिवासे, सुखेन मासं गमयाञ्चकार ।। २५७ ।। कृत्वा विहारं पुनरेत्य जाटा-वासे स तस्थौ जिनकीर्तिमरिः । तिथिप्रमाणानि दिनानि वाऽत्र, नखप्रमाणानि सुवासराणि ॥ २५८ ॥
(तोटकम्)-फलवर्द्विपुरीमधिगन्तुमसौ, सकलैः सुविनीत-बिनेयगणैः । सहितः सुविहुत्य ततो मुनिराद्, चिखलामिधपत्तनमागतवान् ॥ २५९ ।। (उपजातिः)-एका निशामेष समध्यवात्सीत्, प्रातर्विहारावसरे समेताः । लोहावट श्रीफलबदिपूयाँ, ववन्दिरे श्राद्धजना गुरूणाम् ॥२६०॥ गुरूनमस्कृत्य पुरद्वयीस्थाः, स्वं स्वं पुरं प्रत्यगमस्तदैव । स ओशियायां
For Private And Personal Use Only