________________
San
Athana Kenda
SHRI+KO+
सूत्राऽनुसारात्तु विनिधिनोमि, केशीकुमारः श्रमणो महीयान् । नाऽन्तेसदस्येति परम्परातो, यद्गौतमाऽन्तेसदयं बभूव ॥१७५।। आवस्तिकायां पुरि सङ्गतौ तौ, केशीकुमारो मुनिगौतमश्च । प्रश्नोचराभ्यां सुचिरं कृताभ्यां, श्राद्धाऽऽदिवर्गाऽश्चितसत्सभायाम् ॥ १७६ ॥ (वसन्ततिलका)-स्वस्वाऽन्तवासिमुनिवृन्दमनःस्थ-शङ्का, उत्साये गौतममुनि प्रणिपत्य केशी । तुर्यात्मकवतमयं परिहाय धर्मम् , पश्चव्रताऽऽत्मकमुरीकृतवांश्च धर्मम् ॥ १७७ ॥ इत्थं जगाम भगवत्प्रभुगौतमीय-शिष्यत्वमेष मुनिराद् श्रमणः स केशीतद्वधमानजिनशासन-वर्तमानो, लात्वा निदेशमथ गौतमसहरूणाम् ।। १७८ । (उपजातिः)-कशीकुमाराभिधसन्मुनीन्द्र-स्ततोव्यहात्सिह शिष्यवनः । देशे बनेके बिहरन् (देशेष्यनेकेषु चरन्) सुभव्यान् , प्रबोधमानः समवाप्तवान्सः ।। १७९ ।। (इन्द्रवंशा)-कैवल्यविज्ञानमनन्तमुज्वलं, त्रैकालिकाऽशेषसदर्थदर्शकम् । भूवं भविष्यत्सकलं ततोऽसकौ, जाननजस्रं बिजहार सर्वतः॥१८०॥ (त्रिभिर्विशेषकम्)(उपजातिः)-जैने च धर्मे जनताममोघ-स्वदेशनाभिः समतिष्ठिपत्सः । प्रान्ते च कृत्वाऽनशनं स केशी, हृत्वा (हत्वा)चतुष्कर्म गतश्च सिद्धिम् ॥ १८१॥ तदीयपट्टावलिकाक्रमोऽयं, श्रीवर्द्धमानप्रभुपट्टकेऽस्थात् । श्रीगौतमस्वामिवरो हि सिद्धः, पट्टे तदीये निषसाद केशी ॥ १८२ ।। तदासने चाऽऽर्यसमुद्र आसीत् , तत्पडमेरावुदियाय भानुः । इव प्रदीपः कमनीयमूर्तिः, स्वयम्प्रभाचार्यवरो महीयान् ॥ १८३ ।। अमुष्य पट्टे सममूच रत्न-प्रभाभिधाचार्यवरो गरीयान् । आसन् किलैते दश-तुर्यपूर्व-वेत्तार ईच्या जगदद्वितीयाः॥ १८४ ॥ | बीराच पञ्चाशति सप्ततौ वा, वर्षेऽस्य सत्ता स्थविरावलीषु । कृत्वा शरीरद्वयमेककाले, चके प्रतिष्ठां नगरद्वयेऽसौ ॥ १८५ ॥ महोपकेशाऽभिधपत्तनं स, पमारगोत्रीपलदेवनामा । दिल्लीस्थ-मौहम्मद-साधुसाहि-पुरुसेनसाहस्यमहीशितुर्हि ॥ १८६ ।।
For Private And Personal use only