________________
Shri Mahavir Jan Aradhana Kendra
%%%*
www.kobatirth.org.
तराः सुयत्नात् । तान्यागमीयानि च पुस्तकानि तत्रत्यकोशे समतिष्ठिपच ॥ १०० ॥ अवाचयत्सूत्रकृताङ्गमत्र, तथा चरित्रं हरिविक्रमस्य । नानाविधान्युज्वलसत्तपांसि स्त्रियः पुमांसश्च सुखेन चक्रुः ॥ १०१ ॥ देशादनेकादुतिदूरतो हि तद्देशिनां चाऽत्र समागतानाम् । तत्तीर्थयात्राकृतये गुरुणा-मालोकनार्थ बहुसञ्जनानाम् ।। १०२ ।। उपस्थितिर्भूरितरात्र जज्ञे, सुधासहक्षामघताऽपडत्रम् । सदेशनामस्य गुरोर्निशम्य, हर्षप्रकर्षं दधिरेऽप्यशेषाः ॥ १०३ ॥ ( युग्मम् ) समागते पर्युपणे क्रमेण, पर्वाधिराजे मनआदिशुद्ध्या । सदान-शीलाऽधिक-सत्तपोभि-राराधयामासुरविघ्नमेतत् ।। १०४ ।। तथाऽऽश्विने शुक्लदले सुखेन, चाऽऽयम्बिलौलीत्यभिधानपर्व । सद्दीपमालाsभिधपर्वसौभाग्यपञ्चमी पूर्वमहामहेन ।। १०९ ।। ऊर्जेच शुक्लाseमिकासुपर्व, यथाक्रमं सर्वजनाः सुभक्त्या । समारराधुर्दुरखापत्रोधि - बीजं समापुर्गुरुराजयोगात् ॥ १०६ ॥
-
( इन्द्रवंशा) — चक्रुचतुर्मासिकसम्प्रतिक्रमं सानन्दमानन्दघनं प्रपित्सवः । सार्वद्विमासाऽवधि सर्वसाधवः सन्तापता अभवन्ननारतम् ।। १०७ ।। तस्माच्चतुर्मासपरेऽपि साधवः, साध्यश्च तत्रैव पुरेऽधिसंस्थिताः । शक्ति विहर्तुं लभन्त नैतके, पौपेsसिते पक्षतिकाऽवधिं यतः ॥ १०८ ॥ ( इन्द्रवच ) - एकादशीं साहसमौननाम्नीं, सत्पर्वरूपां दशमीं च तैषे । आराध्य पौपाsसितसद्दशम्यां तल्लोद्रवीयामकरोच यात्राम् ।। १०९ ।। पुनस्ततो जेशल मेरमेत्य, सहस्य शुक्ले कतिथौ ततोऽसौ । सूरिचतुर्धात्मकसंघयुक्तः, सह व्यहार्षीनिजशिष्यवर्गेः ॥ ११० ॥ ( आर्यागीति: ) – मोकलसर - वासणपी-र-पीर चौकी चांदणसोढा-कोरम् | लाट्ठि-धोलिया ओडा - णीयो- पोकर्णाऽऽदिका नव ग्रामाः ॥ १११ ॥ ( आर्या ) - चम्पावतराजपुत्र - श्रीरामदेवाऽभिघठकुराणाम् । प्रधाना राजधानी, कथ्यते प्राक्तनैः पुम्भिः ॥ ११२ ॥ ( इन्द्रवंशा ) - सन्ति त्रयोऽस्मिन् सुजिनेश्व
For Private And Personal Use Only
Acharya Shri Kallassagarsun Gyanmandir