________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys su kalis
Gyanmar
LACE%ACANC4%
विहगोत्कर-रम्यरुतम् ।। ७५ ।। इह यात्रिकवृन्दनिवासकते, परमर्द्धिककारितधर्मगृहाः । कमनीयतमा अतिदीर्घतमा, न्यवसत्रि दिनानि सुधीरनघः ॥ ७६ ।। ( उपजातिः)-त्रिक्रोशदूरे तत एप मूरि-र्वायव्यकोणे पुरलोद्रबाऽऽख्यम् । प्राचीनतीर्थ फलदं हि सद्यो, वेविद्यते पावनकारि लोके ॥ ७७ ॥ फणासहस्राधिकशोभमान-श्चिन्तामणिश्रीप्रभुपार्श्वनाथः । नवाम्बुदश्यामलकान्तिकान्त-स्तत्तीर्थनाथो विलसत्यजस्रम् || ७८ ।। ( वसन्ततिलका)-तन्मूलमन्दिरसमक्षविशोभमानः, सन्दीप एकतिलकाऽभिधतोरणोऽस्ति । सत्पीतरम्यपदारचितोऽतिभव्यः, सूक्ष्मप्रशिल्पनिकरैरतिसुन्दरो हि ।। ७९ ॥ वीयाय लक्षममुकस्य विनिर्मितो हि, स्तम्भद्वये वसुजिनच्छवयो ललन्ति । साक्षादिवाऽऽकृतिमिता अतिहारिरूपाः, सम्पश्यतां मनसि तोषविशेषकर्यः ।। ८०॥ (उपजातिः)-प्रदक्षिणायाः पथि मन्दिरस्य, प्राच्य सुचैत्यं प्रथमाऽहतश्च । याम्यां दिशायामजितप्रभूणां, सचैत्यमेवं दिशि पश्चिमायाम् ।। ८१॥ श्रीमत्प्रभोः सम्भवनाथकस्य, कौवेरिकायामपि भथ्यचैस्यम् । बामेयचिन्तामणिसत्प्रभूणां, मूर्द्धस्थशेपाऽखिलसत्फणानाम् ॥ ८२ ॥ (क्षमा)-त्रितयललितवमाऽतिशोभोल्लसत् , सुरविटपिघनच्छायमत्युज्वलम् । समवसरणमेतस्य पार्श्वप्रभो-विलसति निकटे सर्वचेतोहरम् ।। ८३ ।। (स्रग्धरा)-तन्मध्येऽशोकवृक्षो विलसति रुचिरो द्वौ ततः प्राचि संस्थौ, याम्यां चत्वार ईड्या वरुणदिशि तथाऽष्टौ जिनेन्द्रा लसन्ति । कौवेयाँ भान्ति तद्वद्दश जिनपतयः सर्वकर्मप्रमुक्ताः, प्रोचप्राकार एतञ्जिनभवनबहिर्वर्तुलो वर्वृतीति ।। ८४ ॥ (उपजातिः)-प्राहहिर्मन्दिरसम्मुखीन:, सुचत्वरो दीर्घतरोऽभितश्च । तत्राऽस्ति सत्सौधविशालपङ्क्ति-र्वामे च दक्षे रुचिराऽऽनुपूर्त्या ।। ८५ ।। उपाश्रया देवगृहा गुरूणां, सभानि रम्योपवनानि तत्र । वाप्यस्तटाका बहुशो लसन्ति, सरांसि कुण्डानि च पावनानि ।। ८६ ॥ सद्भव्यबृन्दैः
SANKRAKAR
For Private And Personal use only