________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys su kalis
Gyanmar
तृतीयः सर्गः।
श्रीजिनकाचन्द्र
सरिचरित्रम्
॥८२॥
KHARASHTRA
सुभक्तितः ॥ २१५॥ (उपजातिः)--सीवाणदुर्ग तत एष ऐयः, महामहं तन्वदशेषसंघः । पूर्या समानेष्ट ददौ च देश-नामेष सूरिर्षनधीरनादैः ॥ २१६ ।। कुशीवनाम्नी नगरी ततोऽगात्, कुर्वन् विहारं शमताऽम्बुराशिः । सत्कृत्य पुर्यामनयच्च संघो, धर्मोपदेशैरुपचकवान् सः ॥२१७|| आओतराग्राममथो जगाम, सहर्षमेनं विविधोत्सवेन । प्रावीविशत्स्वं पुरमत्र संघ:, सूरिस्ततो धर्ममशेषमाख्यत् ॥ २१८ ।। विहृत्य तस्मादयमाजगाम, बालोतरानामपुरीमपूर्वाम् । प्रावेश्यताऽसौ महता महेन, सद्धर्मपीयूषमलं ववर्षे ।। २१९ ॥ (द्रुतविलंबितम् )-नगरवीरमपूरमथैत्य स, यकृत पार्श्वविभोरवलोकनम् । जलधिसंख्य-| मनेकविनेययुक, दहनतप्त-सुवर्णसुवर्णधृक् ॥ २२०॥ (विभावरी )--जसोलरम्यसत्पुरीमथाऽययौ, पुरस्थ-संघसत्कृतो भृशं सकः । तडिवतः स्वनोपमै खैरदात्, सभासु धर्मदेशनामघौघदाम् ॥ २२१ ॥ ( उपजातिः)--वालोतरामाप ततो द विहत्या, नानद्यमानेः पटहाऽऽदिवायेः । प्रविश्य तत्राऽप्यददिष्ट धर्मो-पदेशमेप क्षितकाममोहः ॥ २२२॥
(भुजङ्गप्रयातम् )- ततः पञ्चभद्रापुरीमाससाद, ससत्कारमेनं पुरि प्राणयन्त । प्रचक्रे स तस्मिन्नपूर्वोपदेश-मयं ज्ञानविज्ञानदानप्रदक्षः ॥२२३।। ततो विहृत्याऽऽगतवांश्च मूरि-लोचरां पा-बसु-ग्रहेन्दौ । वर्षेत्र पौराऽऽग्रहतः स तस्थौ, | प्रावृष्यनेके सह शिष्यवर्गः ॥२२४।। (शार्दूलविक्रीडितम् )--इत्याचार्यपदस्थितस्य मतिमच्छीमञ्जिनाऽऽदे। क्रपा-चन्द्रस्यैष विनिर्मिते बरगुरोः काव्ये चरित्रात्मके । श्रीआचार्यजयाऽब्धिनामविदुषा तत्पादपद्माऽलिना, चातुर्मासविहारवर्णनमयः सर्गस्तृतीयो गतः ।। २२५॥ ॥३॥
।। इति तृतीयः सर्गः समाप्तः ॥
।।८२॥
For Private And Personal use only