________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys
Ka
u n Gyanmand
FACROCHAKRACE%%
लोकान् वरदेशनाभिः। ऐहारुदीनामपुरं ततोऽसौ, सद्धर्ममत्रोपदिदेश सूरिः ॥ २०४॥ ( मालिनी) तखतगढमुपेतः हा प्राप्तलोकप्रतिष्ठो, दिनमणिरिव दीप्रः कल्पवृक्षाऽवभासः । अकृषत पुरलोकाः सस्कृति तस्य गुर्वी-मदित वरममोघ शुद्धधर्मों
पदेशम् ॥ २०५ ।। (हुतविलम्बितम् )-तदनु पादरली नगरौं ययौ, पुरजनेः कृतचारुमहोत्सवैः । अविशदेष पुराऽन्तरथोपदे-शममृतं जनताः समपाययत् ॥ २०६ ।। (उपजातिः)-स चांदराईपुरमध्यगच्छत् , सम्मानमेतस्य गरिष्ठमत्र । तत्पौरलोकः कृतवान् सुभक्त्या-ऽदाद्देशनां सौधरसप्रवाहाम् ।। २०७॥ चूडाऽभिधं पत्तनमेष गत्वा, प्रावेशि पौरैरुचितो(रोत्सवैस्सः। श्रीसुरिराजोऽप्यथ देशनां तां, संसार-दुर्गादधिपोतकल्पाम् (१)॥२०८।। स शङ्खवालीनगरीमपावी-सच्छिष्यवृन्दैगुरुराजवर्यः । सबोधिदानैर्जनताः सुभच्या, उपाकरोदार्यमतिर्गरीयान् ।। २०९ ॥ (इन्द्रबत्रा)-आहोरसंज्ञं नगरं ततोऽगात्, प्राप्तप्रमोदाः सुजना: प्रणिन्युः। बेण्डाऽऽदिकाऽऽतोद्य-निनादगीत, सूरीश्वरोऽदादुचितोपदेशम् ।। २१०॥
(रथोद्धता)-गोदणाऽऽख्यनगरीमथाऽऽगम, विस्तृतैः प्रकृत-सजनोत्सवैः । प्राविशत्तदनु देशनामदा-च्छोवृजीवबहुबोधदायिनीम् ।। २११ ॥ (उपजाति:)-जालोरदुर्ग तत आययौ स, बेण्डाऽऽदिवाधैर्नेगरप्रवेशम् । व्यचीकरसंघमहेभ्यवर्गों, यथोचितं धर्ममुपादिशत्सः ॥ २१२ ।। (वैतालीयम् )-भमराणीमेतवानितो, जिनकृपाचन्द्रसरिराडसी । सम्मेनेsशेषसलका, सदसि सञ्जगौ धर्ममार्हतम् ॥ २१३ ।। (वसन्ततिलका)-राज्यस्थलाऽऽख्य-रमणीयमहापुरं स, आगात्सशिध्यनिकरैर्गुणवान यशोवान । तत्रस्थ-सर्वजनता नगरप्रवेशा-पूर्वोत्सवं गुरुवरस्य चकार भक्त्या ।। २१४ ॥
(वैतालीयम् )--मोकलसरमायताऽसकौ, विविध-वाय-गीतोत्सवैरमुम् । प्रावीविशत्सजितं पुरं, श्रीसंघः सकला
RRCARKAXAMAKAMANAKAM
For Private And Personal use only