________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys
Ka
u n Gyanmand
भीजिनकपाचन्द्र
सरिचरित्रम्
तृतीयः सर्गः।
| सुधामयोपदेशः, सल्लोकं सकलमवेदयत्स्वधर्मम् ॥ १९४ ॥ (इन्द्रवंशा)-नन्देसमा-ठोल-कमोल-सायरा-भाणापुराराणकपूर्षु सङ्गतः । यात्रां विधायेष जनान् प्रबोध्य बै, कृत्वा विहारं समुपैच्च सादडीम् ॥ १९५ ॥
(शार्दूलविक्रीडितम्)-घाणेरावपुरं समेत्य कृतवान्ट्रीत्रैशलेयप्रभो-र्यात्रामेष महामतिर्मुनिपतिर्वारा पतिस्तेजसाम् । हा लोकाऽज्ञानतमिस्रराशिहरणे प्रोद्यत्प्रभोऽहस्करः, संयातस्तत उज्ज्वलाऽतुलयशास्तां देसुरी सत्पुरीम् ॥ १९६ ।। तत्रत्यैः सकलैः
सुभावुकजनैरारम्भि चारूत्सवः, सम्पश्यन् महमुज्ज्वलं गुरुवरः पुर्या प्रवेशं व्यधात् । प्रारेमे बरदेशनां हितकरी सत्प्राणिनां बोघिदा-मागच्छत्तत एष धीरधिषणः सोमेसराऽऽख्यं पुरम् ।। १९७ ॥ (भुजङ्गप्रयातम् )-ततो णादलाईपुरं रम्यमस्मिन् , प्रयाते शरण्ये कृपालौ महिष्ठे । अकार्षीत्सुसंधः प्रवेशोत्सवं च, बदाद्देशनां तत्र सूरिः सभायाम् ।। १९८॥
(इन्द्रवत्रा)-नाडोलमागास्कृतसंविहारः, सम्मानितः पौरजनैरशेषः । श्राद्धस्य धर्म सकलं चचक्षे, सूरीश्वरः पर्षदि विश्ववन्धः ।। १९९ ॥ (वैतालीयम् )-वरकाणामाजगाम सः, पार्श्वनाथविभुदर्शनं व्यधात् । राणीपुरमेतवांस्ततः, सुसत्कृतो| ऽदाद्धर्मदेशनाम् ॥ २०० ॥ (उपजाति:)-खीमेलमाप्तो जनताकृतेन, महोत्सवेनैप पुरं प्रविष्टः । चिरं ददौ धार्मिकदेशनां ते स, संसार-मोहाऽन्धदिनेशकान्तिम् ॥ २०१ ॥ (शार्दूलविक्रीडितम्)-सांडेरावमहापुरीमुपययौ लोका अनल्पोत्सबै-भैरीकाहल-वेण्डकादिनिनदैर्षाधिर्यकारदिशाम् । गीताऽऽद्यैरमितैर्जनैश्च सुगुरुं प्रावेशयन् वं पुरं, सरीन्द्रो भवतारकं सुभविना |* धर्मोपदेशं ददे ।। २०२।। (भुजङ्गप्रयातम्)-सुजाणाऽभिधानं समागात्पुरं स, पुरीलोकचारूत्सवैः सम्प्रविष्ट: । ददौ देशनां सर्वपापौघलोनी, महीयाजिनाऽऽदिः कृपाचन्द्रसूरिः ॥ २०३ ।। (उपजातिः)-खिमाणदीपत्तनमाजगाम, प्रबोध्य
॥८१ ।।
For Private And Personal use only