________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys
Kalasagaran Gyanmada
SAKARACHAKAKAROBAR
शिष्यैः सुजुष्टः, पुरजनकृतबेण्डाऽऽद्युत्सवं प्रेक्षमाणः । अदित सदसि रम्या देशनां मूरिराजः, परमसुखविधात्री कर्मनिश्शेषकीम् ॥ १८२ ।। (इन्द्र वा)-कालं कियन्तं स हि तत्र तिष्ठन् , मेघो मयूरानिव पौरलोकान् । आनन्दयन् धर्मकथाऽमृतानि, सम्पाययामास गुरुर्गरिष्ठः ॥ १८३ ।। श्रीकालिकातानगरीनिवासि-सच्च्ड्रेष्ठि-चम्पाऽऽदिकलालमुख्य-प्यारेसुयुकलालमहेभ्यकाऽऽदेः, सुखेन संघः समुपागतोत्र ॥ १८४ ॥ श्रीसंघपत्याग्रहतो महीयान् , प्रभावकश्रीजिनकीर्तिमूरिः । सशिष्यकस्तेन समं चचाल, कतुं तदा केसरियाजियात्राम् ॥ १८५ ॥ (युग्मम् ) संघेन साधं समुपागतोऽत्र, श्रीमत्प्रभुं केसरियाजिनाथम् । प्रैक्षिष्ट भक्त्याऽतुलया सशिष्यः, संस्तुत्य मोदं घधिकं समाप ।। १८६ ।। मासदयं तत्र सुहेतुतोऽस्थात्, विधाय भूयिष्ठपरिश्रमं सः । सिताऽम्बरीयाऽखिलजैनसंघ-स्वामित्वमत्रत्य-सुचैत्यकेऽस्ति ॥ १८७॥ एतच्छिलालेखमलब्ध तत्र, यो गुह्य आसीदुपरिस्थितत्वात् । तल्लेखमुर्वीपतिरप्यपश्यत् , श्राद्धाऽऽदिलोका अपि ददृशुश्च ॥ १८८ ।। ततो बिहृत्योदययुकपुरं हि, पुनः समागात्सह शिष्यवर्गः । महोत्सव संघकृतं स पश्यन् , लग्ने शुभे तत्पुरमाविवेश ।। १८९ ॥ अस्याग्रहासंघकृताच तत्र, चन्द्रोऽष्ट-नन्देन्दुमिते च वर्षे । श्रीसूरिराजो जलदर्तुवासं पञ्चद्विशिष्यैः सहितः प्रचक्रे ॥ १९ ॥ सद्धर्मपीयूषमपिप्यदेष, श्रीसंघमत्रत्यमनारतं हि । तपांसि भूयांसि जना अका', प्रादियुतच्छासनमाहतं सः ।। १९१ ।।
(आर्या)-गोविन्द सिंहमहता-सराये न्यवसदसौ तुर्यदिनानि । तस्मात्कृतप्रयाणो, बेदलानगरमाजगाम सः ॥१९२।।
(उपजातिः)-पुरप्रवेशं विततोस्सवेन, विधाय लोकान् प्रतिबोध्य तत्र । मादारमागादुपदिश्य लोकान् , विशुद्धधर्म समतीपच ।। १९३ ॥ (महापणी)-गोगुन्दानगरमुपाययौ सशिष्या, सत्पौरा व्यदधुरमुष्य सत्प्रवेशम् । सूरीशः सदसि
SAEKASARACHECK
For Private And Personal use only