________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys
Kalasagaran Gyanmada
माऽऽर सुमारजेता, सच्छिष्यवगैरवनीं पुनानः ॥९२।। सुसत्कृतः पौरजनैश्च सर्वै--धर्मोपदेशैरमृता यमानैः । प्रबोध्य सर्वानयमाप्तवक्ता, गुणाऽनुरागी परिषत्सुवक्ता ।। ९३॥ (भुजङ्गप्रयातम् )-ततो गोडदेशं समेत्योपदेशे-रसौ नाडलाई-महापत्तनाऽऽदौ । महाजीर्ण-चैत्योद्धतिं संघवगैः, शुभंयुः समाचीकरचारुकीर्तिः ॥ ९४ ॥ ततो बति-भूताऽपृथ्वीमिताऽब्दे, पुरी देसुरीमेत्य संघाऽऽग्रहेण । चतुर्मासवासं द्यकात्सिशिष्यः, समश्रावयत्सर्वसंघ च सूत्रम् ॥ ९५ ।। (इन्द्रवन्ना)-प्रभावनापूजन-सत्तपस्या, गुरावमुष्मिनिवसत्यजस्रम् । प्रवृद्धभावैरखिलाः प्रचक्रुः, सत्स्वामिवात्सल्यमपि बनेकम् ॥ ९६॥ ततो विहृत्याऽऽगतवांश्च योध-पुरे महापत्तन एष धीरः । तत्रत्यसंघः कृतवानपूर्व-पुरप्रवेशोत्सबमेतकस्य ।। ९७ ॥ वेदेषु-रेन्धेक्षितिसंमिताऽब्दे, बह्वाग्रहाचत्र जनस्य चक्रे । प्राट्चतुर्मासमनेकशाखा-ऽकूपार-पारीण उदारबुद्धिः ।। ९८॥
(द्रुतविलंबितम् )-भगवतीवरमूत्रमशुश्रवत् , सकलसंघमसौ सुविदां वरः। जलद-नाद-गभीरतरै रवैः,परमपावनमव्ययधामदम् ॥ ९९ ।। (उपजातिः)-अभूच तत्राधिकधर्मवृद्धि-स्तपोभिरुनियमोपवासैः । आष्टाहिकाऽनेकमहोत्सबाथै-रनाथपंग्वादिक-भूरिदानः ॥ १०॥ अगात्ततो जेसलमेरनाम-पुरीं महर्द्धि सह शिष्यवर्गः। बाणेषु-नन्द-क्षितिहायनेत्र, वर्षतुकालं गमयाश्चकार ।। १०१॥ (शार्दूलविक्रीडितम् ) व्याख्याने जनताऽऽग्रहाद्भगवतीसूत्रं पवित्रं मह-माना-जन्म-समजिंताऽधपटलीहारं श्रुतं प्राणिनाम् । जीमूताऽऽरव-सोदरेण वचसा श्रोतृनसंख्याऽऽगतान , वागीशखिदशानिव प्रतिदिनं प्राशिश्वत्सद्गुरुः ।। १०२॥ (उपजातिः)-उपेयिवानेप ततो विहृत्य, नाम्ना फलोधि नगरं समृद्धम् । संसार-कान्तारजराऽऽदिदुःख-दावोपशान्त्यै जलदः सशिष्यः ।। १०३ ।। समागतस्याऽस्य पुरप्रवेशो, व्यधायि पौरैः सकलैः प्रशस्यः ।
For Private And Personal use only