________________
Shri Mahavir Jain Aradhana Kendra
श्रीजिनकृपाचन्द्रसूरिचरित्रम्
॥ ६३ ॥
www.kobatirth.org
व्रताऽऽदिम् । मत्वा कुमारं विनयाऽवनम्रं सम्प्राहिणोत्तज्जननीं च पृष्ट्वा || १२ || (त्रिभिर्विशेषकम् ) - प्रणम्य धर्मश्रियमार्थिकां तां स्वमातरं चाऽपि सुखेन तस्मात् । शुभे मुहूर्ते चलितः कुमारः संप्राप्तवान् विक्रमपत्तनं हि ॥ १३ ॥ सच्चैत्रिके शुक्लदले तृतीया - तियां समागत्य गुरून् मिमेल । आरब्धवाञ्यसि सौम्यघस्रे, बलिष्ठलग्नेऽध्ययनं शुभंयुः ॥ १४ ॥ मेघाविनामुत्तम एष शीघ्रं, सल्लौकिकं धार्मिक शब्दशास्त्रम् । सतर्कशास्त्रं सकलं महार्थं, वेदान्त - वैशेषिक- जैमिनीयम् ।। १५ ।। साङ्ख्यश्च पातञ्जल - तन्त्र-मन्त्र- चार्वाक - बौद्धाऽऽदिकसर्वशास्त्रम् । नैमित्तिकं शाकुनिकं बहूनि काव्यानि चम्पू वरनाटकानि ।। १६ ।। ज्योतिस्तथा वैद्यक - सर्वकोशा - ऽलङ्कार- सामुद्रिकशास्त्रमेवम्। सद्गद्यकाव्यानि बहूँश्च वृत्त-ग्रन्थान् समध्यैष्ट यथावदेषः ॥ १७ ॥ ( त्रिभिर्विशेषकम् ) इत्थं पटीयान् सकलेषु जातः, शास्त्रेषु गाम्भीर्यपयोधिरेषः । चातुर्यतायामयमद्वितीयो बभूव विद्वद्वनचारि-सिंहः ||१८|| ततः प्रविद्वांसमनुं महीयान् जैनाऽऽगमी याऽध्ययनाय योग्यम् । मत्वा गुरुस्तर्क-गुणाऽङ्कुचन्द्रमाने सुवर्षे शुचिशुक्लपक्षे ॥ १९ ॥ प्राविव्रजद्याम्यतिथौ सुलग्ने, स्वाम्नाय दीक्षाविधिना विधिज्ञः । पात्रे समेतेऽसमयेऽप्यवश्यं, सिद्धान्तसद्वाचनमस्य देयम् || २० || ( युग्मम् ) अमानि चेत्यप्यपवादमार्गः, सिद्धान्तशास्त्रे बहुभिः सुधीभिः । कुशिष्यकाः किल वाचनाया, दानं तदादानमपि न्यषेधि || २१ || अश्नन्ति नित्यं विकृतं हि भक्ष्यं कुर्वन्ति ये नो विनयं महत्सु शठाच दुष्टा अतिकोपिनो ये, ब्युद्धाहिता भिक्षु-मतान्तरीयाः ॥ २२ ॥ स्वाचारशैथिल्यमुपागता ये तेषां समेषां श्रुतवाचनायाः । दाता ग्रहीता च ततः स पापी, छेदश्रुतावेवमलेखि सर्वम् ॥ २३ ॥ अतो गुरुस्तं प्रथमं प्रदीक्ष्य, प्राध्यापिपत्सर्वजिना - गमांच | सिद्धान्तनिष्णातमबीभवच्च, त्रिनेत्रवर्षाणि गतं विनीतम् ॥ २४ ॥ इत्थं स्वकीयाऽन्यमतीयशास्त्र - पाथोधि- पारङ्गत एष
3
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
द्वितीयः सर्गः ।
॥ ६३ ॥