________________
Shri Mahavir Jain Aradhana Kendra
श्रीजिनकृपाचन्द्र
बरि
चरित्रम्
॥१०१॥
www.kobatirth.org
ssत्मके, चातुर्मासिकषट्कवर्णनमयः सर्गस्तुरीयो गतः ॥ ४५६ ॥
॥ इति चतुर्थः सर्गः समाप्तः ॥
अथ पञ्चमः सर्गः प्रारभ्यते—
( शार्दूलविक्रीडितम् ) लोके श्रीऋषभ - प्रजापति - महादेवेतिनामत्रयैः प्रख्यातिं गतवाननन्तमहिमा त्रैलोक्यनाथो हि यः । श्रीनाभेर्मरुदेविका सुजठरे सर्वार्थसिद्धच्युतो, जातो मानवसर्वरीतिमनघश्चाऽऽदौ समस्थापयत् ॥ १ ॥
( उपजाति: )—सद्राजनीतिं व्यवहारनीति, सद्धर्मनीतिं पुरुषाऽङ्गनानाम् । दैलर्षि वेदाङ्गकला युगादा- वशिक्षयच्चान्यमनुक्रमेण || २ || आद्यः किलाऽस्मिन्नभवच राजा, भिक्षाचरश्चाऽऽदिम एष एव । तीर्थङ्कराणाम्प्रथमच योऽभू-दर्द्दन्नथाऽऽद्यः समभूजगत्याम् || ३ || प्राथम्यमागादिह केवलित्वे यः पञ्चशिल्पीं प्रकटीचकार । कर्माऽटकोच्छेदचिकीर्षया हि यो-ऽष्टाऽङ्गयोगं रचयाञ्चकार ॥। ४ ॥ ( स्रग्धरा ) – सम्यक्त्वज्ञानचारित्रमिह बहुतपः संविधायाऽतिघोरं, मुक्तेर्मार्ग विशुद्धं शुभभविमनुजान् दर्शयामास यश्च । कर्माण्यष्टौ विनाश्य स्वयमपि रजताऽगोपरिष्टात्सुखेन, निर्वाणं चाऽध्यगच्छत्तमनिश मनवं नाभिसूनुं नमामि ॥ ५ ॥ ( शार्दूलविक्रीडितम् ) - पूर्व चक्रिसुसम्पदं ह्यनुभवंस्तामत्य जल्लोष्ठवत्, जातोऽर्हन् कनकच्छविमृगधरस्तीर्थङ्करः पोडशः । लक्ष्मीवर्धनकारको जनिमतां सद्भक्तिभाजामसौ, कल्याणं बहु तन्तनीतु सततं श्रीशान्तिनाथः
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
पश्चमः सर्गः ।
॥१०१॥