________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीजिनदत्तसूरिचरिते
उत्तरार्द्धम् ।
अथ षष्ठसर्गः प्रारभ्यते ॥
तत्रादौ मंगलाचरणम् यथाकल्याणं वः प्रतन्यात्प्रथमजिनपतिर्विश्वविश्वेशपूज्यो यस्य श्रीपुण्डरीकः प्रथमगणधरःपंचकोटी समेतः ॥ श्रीमच्छर्बुजयाद्रौ सकलरिपुजयात्प्राप्तसत्कीर्तिपूरः, प्रेयः श्रेयःसुकन्यापरिणनमहोब्रह्मचारीव्यधत्त ॥ १॥ श्रीविक्रमपुरश्रीमहावीरदेवस्थापन भूतप्रेतनिरासन श्रीमदुज्जयिनीयोगिनीचक्रप्रतिबोधकःकुमार्गनिरोधकः अणहिल्लपाटकसप्तवर्षावस्थानःप्रतिवादिसिंहनादभंगविधानः श्रीत्रिभुवनगिरिदेशनियमितपंचसप्तयतिवासनिवारण श्रीपार्श्वनाथ नवफणधारण:वामावर्तीर्तिकास्थापनः निरंतरागछद्गछदनेकसुरासुरविरचितांघिसेवनःश्रीमदंविकादेवीखहस्तप्रदत्तनागदेवश्रावक हस्ताक्षरवाचनोत्पुंसनवप्रकटितयुगप्रधानभावः नानाप्रभावः श्रीविधिमार्गप्रभावनाद्यनेकावदातकर्पूरसुरभितः त्रिभुवनाभोग समाश्रितः ध्वस्ताशेषरोगयोग खप्रतिभापहसितदेवसरिः युगप्रधानश्रीमजिनदत्तमूरिः तेषां च भव्यनव्यनव्यतरश्रद्धालवलतावितानविवेकविमलजलसेचनप्रख्यं षसर्गे सावशेषं चरित्रलेशं चिकीर्षुः समस्तप्रत्यूहव्यूहव्यपोहाय
२६ दत्तसूरि
For Private And Personal Use Only