________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्थाहादग्रन्थमाला।
मुरजः । श्लोकद्वितयम् । रोगपातविनाशाय तमोनुन्महिमायिने । योगख्यातजनार्चाय श्रमोच्छिम्मंदिमासिने ॥७६॥
रोगेति-श्लोकद्वितयम् । अयमेव श्लोको द्विवारः पठनीयो द्वेधा व्याख्येयश्चेति कृत्वा श्लोकयमक इति भावः ।
रोगा: व्याधय: पाताः पातकानि कुत्सिताचरणानि, रोगाश्च पाताश्च रोगपाताः तान् विनाशयतीति रोगपातविनाशः तस्मै रोगपातविनाशाय । बहुलवचनात् कर्तरि अङ् घञ् वा । तमः अज्ञानं तत् नुदतीति तमोनुत् अज्ञानहन्तेत्यर्थ: । महिमानं माहात्म्यं पूजां अयते गच्छत्येवंशील: 'शीलार्थे णिन्' महिमायी । तमोनुच्चासौ महिमायी च तमोनुन्महिमायी तस्मै तमोनुन्महिमायिने । योगेन ध्यानेन शुभानुष्ठानेन ख्याताः प्रख्याताः योगख्याताः योगख्याताश्च ते जनाश्च योगख्यातजनाः योगख्यातजनानां अर्चा पूजा सत्कारः यस्यासौ योगख्यातजनार्चः गणधरादिपूज्य इत्यर्थः । अथवा योगख्यातजनैरर्यः इति योगख्यातजनार्चः तस्मै योगख्यातजनार्चाय । श्रमः स्वेदः तं उच्छिनत्ति विदारयतीति श्रमोच्छित् । मन्दिमा मदुत्वं सर्वदयास्वरूपं तस्मिन् आस्ते इति मन्दिमासी । श्रमोच्छिच्चासौ मन्दिमासी च श्रमोच्छिन्मन्दिमासी तस्मै श्रमोच्छिन्मन्दिमासिने । इन ते नमः इत्येतदनुवर्तते । तै: एवमभिसम्बन्ध: कर्त्तव्य:-हे शान्तिभट्टारक इन स्वामिन् ते तुभ्यं नमोस्तु किं विशिष्टाय तुभ्यं रोगपातविनाशाय पुनरपि किं विशिष्टाय तमोनुन्महिमायिने पुनः योगख्यातजनार्चाय श्रमोच्छिमन्दिमासिने || ७६ ॥ ___ हे स्वामिन् शान्तिनाथ ! आप अनेक रोगोंके नाश करने वाले हैं। अनेक पापोंके दूर करनेवाले और अज्ञानरूपी अंधकार
For Private And Personal Use Only