________________
Acharya Sarkeessagerul Samad
प्रभवचोरचान्तः।
श्रीजम्बूस्वामिचरित्रम् । ॥१०॥
कनिष्ठपार्श्वगामिबन्धुभिब्य सह स परिणीतवधूभिः परिवृतो निजागारं प्रविवेश । ततः प्रथमतः सर्वशं पब्बात् कुलदेवता वन्दित्वा वधूवराणां करेभ्यो विवाहबद्धकरणमोक्षणमभूत् । तदनन्तरं हर्षितौ धारिण्यृषभदतौ जम्बूद्वीपनाथस्य देवस्य स्वयं सविधिपूजां चक्रतुः।। ततः सकलालधारभासुरी जम्मूकुमारोऽपि निजवनिताभिः सह निवासभवनं जगाम । तत्रर्षभनन्दनः सभार्योऽपि प्राचर्यधरोऽस्थात्। यतो महाशया विकारहेतावुपस्थितेऽपि विकारहीना भवन्ति ।
श्रीजम्बूकथानके प्रभवचोरवृत्तान्तः। इतब्वास्मिन् भरते विध्यपर्वतसमीपे जयपुर नाम नगरमस्ति । तस्मिन् विन्ध्यनामा राजाऽभवत् । तस्य प्रसिद्धी प्रभवप्रभुनामानौ | द्वौ पुत्रावभूताम् । एकदा विन्ध्यो राजा प्रभये ज्येष्ठपुत्र सत्यपि कनिष्ठाय प्रभुनामपुत्राय राज्य केनचित् कारणेन बदौ । ततोऽपमानितो | ज्येष्ठः प्रभवो जयपुरनगराद् बहिनिःसृत्य विन्ध्याचलस्य विषमभूमौ वास निर्मायाऽस्थात् । तत्र सपरिवारः स खात्रसननन्दिग्रहणेमर्गिपातनैश्चौरैरैन्यैश्च प्रकारैर्जीविका चकार ।
अर्थकदा तस्य गुप्तचरा आगत्य कुबेरस्याप्युपहासिनी जम्बूकुमारसम्पत्ति विज्ञापयाचकः। जम्बूकुमारविवाहोत्सवे मिलितान् बहुन् अत्यर्थम् धनाधिपतीनर्थचिन्तामणी निव स्थितान् कथयामासुश्च । ततश्च स दस्युशिरोमणिः प्रभवोऽवस्थापनिका-तालोद्घाटिनीभ्यां विद्याभ्यां सहितस्तदैव जम्बूकुमारभवनं प्रययौ । ततः प्रभवोऽवस्वापनिकया विद्यया जम्बूकुमार विना सर्व जाग्रतं लोकं स्वापयामास । साऽवस्थापनिका विद्या प्रचुरपुण्यशालिनो जम्बूकुमारस्य स्वापे नाशकत् । प्रायः पुष्कलपुण्यानामिन्द्रोऽपि विपत्तिदाने न समर्थः । ततो दस्यवो निद्रामुपागतानां सर्वेषामपि भूषणयसनादिसर्वस्वं प्रहीतुं प्रावृतन् । ततो महामना जम्बूकुमारो लुण्टाकेष्वपि उण्टल्स कोपक्षोभ
॥१०॥
For Private And Personal use only