________________
Shn Mahavir Jain Aradhana Kendra
श्रीजम्बूस्वामि
चरित्रम् |
118 11
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कृतस्नानस्य जम्बूकुमारस्य क्षरालाः केशा आसन्नलोचभयादथु मुञ्चन्त इव रेजुः ।
ततो गन्धकार्यः स्त्रिय उत्तंसलीलां कुर्वता कर्पूरागरुधूपेन जम्बूकुमारकेशानध्यवासयन् । गन्धकार्या तस्य कुमारस्य मूर्द्धनि पुष्पमाल्यगर्भितो जात्याश्वकन्धराकुटिलो धमिलो बबन्धे, जम्बूकुमारो मुखकमलमान्तविश्रान्तमरालयुगलशोमे तारे मौक्तिककुण्डले दधार आनाभिलम्बितं फेनबुडुदावलिसन्निभं मुक्ताहारं परिदधे । चन्दनविलिप्ताङ्गः सर्वाङ्गामुक्तमौक्तिकस्तारावलिभिः पूर्णचन्द्र इव भृशं चकाश । ऋषभनन्दनो देवदूष्ये इवादृष्ये दशासहिते धवलवसने विवाहमङ्गलार्थ परिदधौ । ततः स जात्याश्वमध्यारोहत् । मायूरच्छत्रधारी स्वसदृश वयोवेषानुचरैः परिकरितो, नीरजीवृतमुखो गीयमानबहुमङ्गलो वधूटीभ्यामुभयत उच्चार्यमाणलवणो जम्बूकुमारो वाद्यमानमङ्गलातोयः पठन्मङ्गलपाठको विवाहमण्डपद्वारं शीघ्रं ययौ । तत्र सुवासिनी साक्षात् तनुमतः कामदेवस्येव जम्बूकुमारस्य दध्यादिमङ्गलद्रव्यैर ददौ । कुमारो द्वारि न्यस्तं वह्निगर्भितं शरावसम्पुढं भक्त्वा कल्याणसम्पद्गुहं मातृगृहं जगाम । ततः सोऽष्टाभिः कुमारीभिः सह तत्रोपविश्य कौतुकोद्वाहमङ्गलमनीचकार । ततश्च शुभलग्नसमये चतुरिकाऽन्तरे गत्वा पित्रोर्विनयेच्छुर्जम्बूकुमारस्ताः कुमारिकाः परिणिनाय । ततो धारिणी तारामेलकके प्रसन्ना, कौतुकेषु ससम्भ्रमा, मङ्गलावर्ते सन्तुष्टा, मधुपर्के स्मितमुखी, यौतके सावधाना, अञ्चलमोक्षणे चतुरा, प्रणामे सबाष्पनयना, क्रोडस्थापनेऽत्यन्तममुदिता, सती तनयविवाहकल्याणसुखमिति लेने । यतः स्त्रियोऽपश्ये विवाहिते हृष्यन्ति ।
विवाहानन्तरं वरस्य वधूनां च तावद् यौतकमभूत् येन सौवर्णः पर्वतो भवेत् । ततः समाजसहचारिणा मङ्गलदीपेन, धवलमङ्गलं मधुरं गायन्तीभिः कुलाङ्गनाभिः, पुरतो मधुरस्वरपूर्वकं वाद्यमानैर्मनलतूयें-गीत-नृत्य-वादित्ररमणीयेन प्रवर्तमानेन सङ्गीतकेन च हृष्टज्येष्ठ
For Private And Personal Use Only
जम्बूकुमार
विवाहमहोत्सवः ।
॥ ९ ॥