SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१६) प्राह्यगुणग्राहकत्वादिति शब्दे गुणत्वसिद्धिः, हेतौ गुणपदप्रवेशस्थाप्रयोजकत्याद्गौरवकरत्वाच्च, शब्दोऽपोद्गलिकःअतिनिबिडप्रदेशप्रवेशनिर्गमयोरप्रतिघाताद् गन्धवत्, इत्यपोद्गलिकत्वसिद्धिः इत्यप्यतितुच्छम्, श्रोत्रप्राप्यकारित्वस्थापनायां वस्तुतस्वित्यादिना समाहितत्वात्, आश्रयं विना गुणानां गतेरशक्यत्वेन दृष्टान्तासिद्धः, साश्रयाणां गमने वा तदाश्रयेणेव व्यभिचाराच्च । तथाहि-वत्यमानजात्यकस्तूरिकादिगन्धद्रव्यं हि पिहितहारापवरकस्यान्तर्विशति बहिश्च नियति न चापौगलिकः, न चापवरकादौ सूक्ष्मरन्ध्रसम्भवान्नातिनिबिडप्रदेशत्वमतो गन्धद्रव्यप्रवेशनिष्क्रमो, कथमन्यथोद्घाटितद्वारावस्थायामिव न तदेकार्णवत्वं स. वथा नीरन्धेऽपवरकादौ तु न प्रवेशनिर्गमयोः सम्भव इति साम्प्रतम् । शब्देऽपि तुल्ययोगक्षेमत्वात् । न चाकाशादिवत् पूर्व पश्चाचावयवानुपलब्धेरपोद्गलिकस्वसिद्धिरिति वाच्यम्, यद्यपि सूक्ष्मपरिणामपरिणतानां तेषाश्चमंचक्षुषामवयवोपलब्धेरभावस्तथाप्यतिशायिज्ञानवतां तत्सम्भवेन साधनासिद्धः परमाण्वादिनोल्कादिनाउनैकान्तिकत्वाच्च। न चापौगलिकत्वस्य पुद्गलसमवायिकारणकत्वाभाववत्त्वमित्यर्थे कथं परमाणा व्यभिचारः, मणुकादो तदापत्तेः । न च योग्यत्वनिवे For Private And Personal Use Only
SR No.020398
Book TitleJain Tattva Pariksha
Original Sutra AuthorN/A
AuthorUdayvijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1917
Total Pages54
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy