________________
Shri Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kasagarsuri Gyanmandir
व्याख्या-'एव'मित्युक्तप्रकारेण ईर्यापयिकास्वरूपं विद्वांसः शोधयन्तु इत्यन्वयः, किम्भूताः विद्वांसः ? 'मसनमनसा' प्रसन्न-मत्सरादि दोषाषितं स्वच्छ मनश्चित्तं येषां ते प्रसन्नमनसः, रागद्वेषमत्सरेादिदोषदुष्टमानसा विद्वांसः शाखं न सम्यक्तया शोधयन्ति विशुद्धिमत्वेन, अविबांसोऽपि शास्त्रायेत्तारो न शोधनसमर्थाः, ततो विद्वांसः प्रसन्नमनसश्चेति पदद्वयमपि युक्तिमदेव, किम्भूतमीर्यापथिका(स्वरूप) विचारं ? नभो-नीरधि-रस-शशधर-वर्षे,अङ्कानां विपरीतगत्या गणनात् १६४०वर्षे जयसोमेन लिखित' विततगम्भीरार्थसार्थसन्दर्भितान्यान्यशाखमध्यसङ्कलितमपि विनेयजनजिज्ञापयिषया विविच्य लिपिसास्कृतं, न तु स्वकपोलकल्पनया नवीनं कृतमिति भावः, किं कृत्वा ? 'जिनचन्द्रगुरूणां' श्रीमद्वृहत्खरतरगणनायकानां श्रीजिनमाणिक्यमूरिपट्टोदयाचलचूलिकासहस्रकरशोभाविधायकानां श्रीमज्जिनचन्द्रसरिगुरूणां उपदेश' आज्ञामादेशमिति यावत् 'लब्ध्वा' प्राप्य, किम्भूतानां जिनचन्द्रगुरूणां ? 'लब्धजयाना' लब्धा-पाप्तो जयो यैस्ते लब्धजयाः, साभिप्राय विशेषणमिदं, तद्यथा-पुरा हि श्रीगुरवो जिनचन्द्र सूरयः सद्भूतप्रभूतभाग्यप्रारभाराः गोर्जरत्रायै कृतविहाराः श्रीमदणहिलपुरपत्तने कृतवर्षाचतुर्मासास्तपार्मसागरपाठकेन सह श्रीनवाकृत्तिकारकश्रीमदभयदेवाचार्याः खरतरगच्छाधीश्वरा उतान्य. गच्छीयाः वा ? इति विमर्श जायमाने सकलजैनदर्शनसमुदायाध्यक्ष समस्तान्यान्यगच्छीयोपासकराशिसमक्षं तद्वास्तव्यसकलगच्छोयाचार्योपाध्यायवाचनाचार्यपण्डित शिष्यादिसुविहितजैनदर्शनेन नाना शास्त्राणि विचार्य विपरीतवादिनं दर्शनादपसार्य श्रीजिनचन्द्रसूरीणां सन्मानदानपूर्वक श्रीनवाङ्गचिकारकश्रीअभयदेवसूरि खरतरगच्छीय एवेति निर्धार्य सर्वजैनगच्छसम्मततया स्वस्वनामसन्दर्भितस्वस्वगच्छनामगर्मितसम्मतिपत्रदानेन कृतसुबहुमानाः समभूवन्निति लब्धजयत्वं तेषां, पुनः किम्भूतानां ? 'गुरुप्रमोदानां' गुरुः गुरुषु वा प्रमोदोहर्षी येषां ते गुरुप्रमोदास्तेषां, यत एवं लब्धजया अत एव गुरुप्रमोदाः, अथवा 'गुरुप्रमोदानां' श्रीप्रमोदमाणिक्यगुरूणामुपदेशं लब्ध्वा,
For Private And Personal Use Only