________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १९३) विडंगं त्रिफला कृष्णा भिल्लातं शंखपुष्पिका। ब्राह्मी च बाकुची मंकुः चूर्णमेषां समांशकं ॥ २६ ॥ मध्वाज्यभक्षितं हन्ति सर्वकुष्टानि दोहिनः । आयुर्वृद्धिबलंपूजां विदधाति न संशयः ॥ २७ ॥ चक्रमर्दस्यपत्राणि लांगली चंद्रराजिकाः । अर्काश्वमारमूलानि शिरीषस्तुलसीजटा ॥ २८ ॥ मूलापानसयोर्बीजं मूलमंकोलसंभवम् । मंकुस्तीक्ष्णः समं चूर्ण तक्रपीतं प्रलेपतः ॥ २९ ॥ कांजिकेन द्रुतं हन्ति कुष्टं दद्रं च सिध्मकम् । कुष्टहृच्चेंगुदीचूर्ण तैलगोमूत्रसंयुतम् ॥ ३० ॥ चक्रमर्दो निशायुग्मं विडंगं दति सैंधवम् । तृवृता बालकं निंबः पंचांगो वृहतीशिफा ॥ ३१ ॥ त्रिफला कंगुणीमूलं करंजकुटजाविति । सर्वकुष्टहरं चूर्ण लेपादेषां गवांभसा ॥ ३२ ॥ राजीवनालबीजानि विडंगं दंति सैंधवम् । शिरीषो बाकुची वन्हिस्तुलसी च निशाद्वयम् ॥ ३३ ॥ गृहधूमो वृपामूलं त्रिफलाश्वारिमूलिका । सर्वकुष्टहरं लेपाञ्चूर्ण पिष्टं तुषांभसा ॥ ३४ ॥ गुंजामूलं निशामंकुर्बाकुची चक्रमर्दकः । कुटजोश्वारि एतेषां समांशं सूक्ष्मचूर्णकं ॥ ३५ ॥ सप्ताहं तु स्थितं तच्च गोमूत्रे तस्य लेपतः । सिध्मानि सर्वकुष्टानि तिलकानि च यांति वै ॥ ३६ ॥ यवक्षारः शिलाशंखस्तालकासीसगंधकं । सिंदूरचूर्णमेतेषां समाशं तैलसंयुतम् ॥ ३७॥ तापितं सूर्यरोचिभिर्लेपादस्य विनश्यति । कंडू विचर्चिका कुष्टं शिरःकुष्टं च दारुणम् ॥ ३८ ॥ तालकं लांगली मंकुः क्षीरं स्नुह्यर्कसंभवम् । कुष्टं हयारिमूलं च चूर्णमेषां समांशकम् ॥ ३९ ॥ पक्वं गोमूत्रतैलाभ्यामभ्यंगादस्य नश्यति । कंडू विचिका कुष्टं शिरःकुष्टं च दारुणम् ॥ ४० ॥ त्रिकटुः सैंधवं दूर्वा तालं गोमूत्रसंयुतम् । कुष्टं विचिकां कंडूं दड़े हन्ति प्रलेपतः ॥ ४१ ॥
For Private and Personal Use Only