________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अबुदचलवर्णनम्
सद्गन्धशैत्येन विनोदकारी
नाम्नाऽर्बुदोऽदिर्जनतापहारी ॥१॥
यः
श्रितोयतीन्द्रैः कवितः कवीन्द्रः
स्तुतो मतीन्द्रैःप्रणतो द्विजेन्द्रः । पुलिन्दवृन्दारकभूपगोप-~
कलत्रवृन्दरभिनन्दितो यः ॥२॥ कुमारसम्भवपद्यपादपूर्तिःसंधारयेद् यो युगपत् सुगूर्जरं
मरुं च देश निजपार्श्वभागतः भाग विधातुं दिशयोद्धयोः किमु ?
स्थितः पृथिव्या इव मानदण्डकः ॥३॥
यम्व्याघ्राश्च सिंहा हरिणाश्च शूकरा
ऋक्षास्तरक्षुर्गवलाश्ववारणाः । हिंस्रा वृका वानरजम्बुका अपि
यमबुंदं प्रीतिनता भजन्यहो! ॥४॥
येन
मत्ता हंसमयूरकोकिलशूकाः पारावताः सारसाः क्रोञ्चाः खञ्जनचातकाच चटकाश्चाषाश्च भासातपाः ।
For Private and Personal Use Only