________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यथार्थगुरुः
-: १२ :
यथार्थगुरुः
शिष्यस्य कल्याणकरो गुरुः सन्
निःस्वार्थभावात्सुखमार्गदर्शी । शुद्धात्मशक्त्या च तपोबलेन
शिष्योपदेशी, न तु शिष्यतापी ॥१॥ दिव्यार्थदत्वात् गुरुरस्ति देवो
निष्कारणप्रीतिकरः पिता च । इष्टार्थसंयोजितया तु मित्र
. सर्वाप्तरूपः कथितो गुरुः सन् ॥२॥ त एव वेद्या गुरवो यथार्थ
शिष्यस्य कीर्ति च समुन्नतिं ये । कुर्वन्ति नीरागदृशा समन्तात्
पितेव तं क्षेमपथे धरन्ति ॥३॥ शिष्यस्य शक्तिः सुयशो गुणावा
गुरुप्रसिद्धयै भुवि सम्भवन्ति । अतः समिच्छेत्सुयशोऽभिलाषी
स्वतोऽधिकं शिष्ययशो विधातुम् ॥४॥ सर्वस्येच्छेद् यशो हर्तु शिष्यस्य तु विवर्धयेत् पराजयोऽपि शिष्यात् स्वात्, भूयसे श्रेयसे भवेत् ॥५॥
*उद्यनपत्रिका संस्कृत पु. ७ अंक ८-१०.
For Private and Personal Use Only