________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीवृद्धिचन्द्रमुनीश्वराणां स्तुतिः
-: ११ :
| श्रीवृद्धिचन्द्रमुनीश्वराणां स्तुतिः ।
आबाल्याद्वैराग्यवान् दुःखतप्तजनानां कृपासमुद्रः । कृपाऽऽरामः खलु ग्रीष्मे भविक मोदवृद्धचन्द्रो वा ॥१॥
अनेक गुणगणयुक्तोऽनेकतपस्विसेवितपदपद्मः । अनेकवुधराजस्तुत आसीच्छ्रीवृद्धिचन्द्रमुनिपः ॥ २ ॥
परमसौख्य हेतुं तं शान्तिभावितमानसम् । वन्दे परमलाभार्थ, वृद्धिचन्द्र मुनीश्वरम् ॥ ३ ॥
यस्य क्षान्तिगुणो महान्
मुदिरवत् क्रोधाग्निसंशामकः, यस्याहो चरितामृतांशु किरणै
स्तापो भुवां नाशितः । श्रुत्वा यस्य कथां शुभां
जनगणो मुक्तौ सदोत्तिष्ठते, सोऽयं वो वितनोतु भद्रपदवीं श्रीवृद्धिचन्द्रः प्रभुः ॥ १ ॥
* जैन धर्मप्रकाश भावनगर, पु. ४९, अंक ६
For Private and Personal Use Only
१३
3