________________
Shri Mahavir Jain Aradhana Kendra
गाढ़ा ०
३७
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
स्मगतेपि (संशय निष्टतादृशज्ञानजन्यतयो रननुगततया स्मृतिनिष्टजन्यतायाएव निवेशनीयतया ऽवान्तर कोटिस्मृतिविनैव संशयांतरीत्यादः संभवतीमिवाच्यं । अवच्छेदकभेदेनभिन्नयो: स्मृति संशयनिष्ठतादृशज्ञानजन्यतयो रननुगतायाः स्मृतिनिष्ठजन्यताया एव निवेशनयितया स्मरणापेक्षाया आवश्यकत्वादितिभावः स्वसामानाधिकरण्यावच्छिन्न स्वाव्यवहितोत्तरत्व संबंधेन | साधारणधर्मज्ञानविशिष्टोपस्थितित्वेन हतुत्वोपगमेपि संशयादपिसंशयः संभवती तिगौरवमेवोपस्थिते: स्वतंत्र हेतुतायां वाधकमित्यवधेयं । धर्मितावच्छेदकेति । धूमवान्पर्वतो वन्हिमान्नवेतिसंशये धर्मितावच्छेदकप्रकारकज्ञानमुद्रा पर्वतत्वायवच्छिन्नविशेषक धूमत्वादिविशिष्टवत्ताज्ञानस्य जनकतया धूमत्वादिमत्वमादाया तिप्रसंगवारणाय धर्मितावच्छेदकविशिष्टेति धर्मतावच्छेदकपदं फलीभूतसंशयधर्मितावच्छेदकता पर्याप्त्यधिकरणधर्मपरं अन्यथापर्वतत्वादेरपि दर्शित संशयधर्मितावच्छेदकघटकतया उक्तातिप्रसंगवारणासंभवात् । एवंच तद्धर्मपर्याप्तधर्मितावच्छेदकताक यत्किंचित् संशयनिरूपितायां जनकताया मवच्छेदकीभूताया तद्धर्मनिष्ठ धर्मितावच्छेदकतानिरूपकप्रकारता तन्निरूपितावच्छेदकता पर्याप्त्यधिकरणधर्मवत्वमिति प्रानिरूकोर्थः पर्यवसितः तेन सत्तावान् जातेरित्यादौ सत्ताभाववत्समवेतत्वा प्रसिद्ध्या यद्रूपपदेन सत्तावत्समवेतत्व मात्रोपादानसंभवे नातिव्याप्तिरितिपरास्तं । वक्तव्यंव्याख्येयं एवंच मूलस्थमुभयकोट्युपस्थापकपदं संशायकार्य मित्यभिप्रायः मूलमुपेक्ष्य निष्कृष्टमते स्वातंत्र्येणैवैत्तल्लक्षण मितिकेचित् प्राचीनास्तु साधारण्याव्यवच्छिन्न प्रकारताशालिज्ञानत्वेन नसंशयजनकता पुरुषस्वतदभावसहचरितत्वेन यदाकदाचित् ज्ञानस्यो र्ध्वत्वादे रूर्ध्वत्वत्वादिमात्रेण ज्ञानादप्ययं पुरुषोनवेति संशयात् किंत्वनुहुद्दसं|स्कारान्य साधारण्यादिप्रकारक विशिष्टधर्मिज्ञानत्वेनैव साधारण्यादिप्रकारकत्वंच संस्कारज्ञानसाधारणं अत स्तत्प्रकारकज्ञानासत्वेपि तज्जन्य तथाविध संस्कारविशिष्टशेर्ध्वत्वादिज्ञानात् संशयनिर्वाह: वैशिष्ट्यंच स्वविशेष्यतावच्छेदकावच्छिन्न प्रकारताकत्व
For Private and Personal Use Only
XXXXX*****************
३७