________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
दायातिप्रसंगः पूर्ववदेववारणीयः समवायादिघटितसाधारण्यमादाय संयोगादिना धूमादेर्वन्यादिसाध्यक सव्यभिचारतावारणाय प्रकृतहेतुतावच्छेदक संबंधेनयत्साध्यवहृत्तित्वं साध्याभावववृत्तित्वंच तदघटितत्वेन विषयतावच्छेदकधर्मोविवक्षणीयः असाधारण्यशरीरेप्यभावप्रतियोगितया तेनसंबंधेन साध्यादिमदृत्तित्वनिवेशा नतदसंग्रह ः साधारणधर्मवद्धर्मिज्ञानसत्वे उद्बोधकांतराधीनकोटिस्मरणा दनुभवात्मककोट्युपस्थितेत्री संशयोपगमे क्षतिविरहात् विशेषणज्ञानादिमुद्रया कोट्युपस्थितिहेतुतयैवोपपत्तेः साधारणधर्मज्ञानजन्यकोट्युपस्थितित्वेन स्वतंत्रतुताकल्पनमनर्थकमिति व्याख्यातकल्पे साध्यसंदेहजनकत्वरूप कोट्युपस्थितिविशेषणस्याव्यावर्तकतया बिलक्षणजनकताया श्चासत्वेन निवेशनासंभवा दुतातिप्रसंगो (१)दुरिएवे त्यभिप्रेत्य तादृशनिष्कृष्टमते प्रकारांतरेण लक्षणव्याचष्टे यथाकथंचिदिति साधारणधर्मज्ञान जन्यातदजन्यावेत्यर्थः विशेषणज्ञानादिमुद्रया कृप्तकरणतातएव निर्वाहो नतु स्वातंत्र्येण तहेतुत्वमितिमचयितुं स्मृत्यनुभवसाधारणीति नन्वेवं साधारण्यादिविशिष्टधर्मवत्ताज्ञानसमकाले कथंनसंशय इत्यत आह नियामकमिति नियामतादृशधर्मदर्शनदशायामेव संशयइति नियमनिर्वाहकसाधारण्यादीत्यस्य साक्षात्सं. शयहेतुनमतमित्यादि : आदिपदादसाधारण्यपरिग्रहः अनुभवसाधारण्याः कोटशुपस्थितेहेतुत्वादे व धारावाहीसंदेहः अविरलकमोत्पन्न संदेहत्रितयादिकं साधारणधर्मज्ञानजन्य कोट्युपस्थितित्वेन संशयहेतुत्वे स्मरणात्मककोट्युपस्थितेरेव तथात्वात साधारणधर्मविषयकज्ञानजन्यकोट्युपस्थित्या संशयहयजननसंभवेपि संशयांतरोत्पत्तौ तथाविध स्मृत्यात्मकोपस्थित्यंतरस्या पेक्षणीयतया अविरलकमोत्पन्नसंशयत्रितयादिकं नोपपद्यते एतन्मतेतु संशयात्मककोटयुपस्थित्यादेरपि संशयान्तरोत्यादा संभवेनांतरा कोटिस्मरणानपेक्षणा साधारणधर्मविषयक द्वितीयादिसंशया त्तदग्रिमक्षणेषु संशयांतरोत्यादे वाधका भाव : नचा.
प्पणी-भयं नित्यो बाना दियादो माने। ॥ इति गंगाधर कृत टिप्पणी समाप्ता॥
For Private and Personal use only