SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ******** www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir बंधकतायां विषयतयाऽवच्छेदकत्वं विभागमात्रेति मात्रपदेनदुष्टत्वव्यवहारव्यवच्छेदः । दुष्टत्वव्यवहारनियामकोऽनुमितिप्रतिबंधकतावच्छेदकधर्मएव विभाजकइतिनियमे मानाभावादितिभावः । नन्वत्रलक्षणे पक्षधर्मतापदानुपादाना न्नित्यत्वादिसाध्यकस्थले कोटिहयोपस्थापकसाधारणधर्मवत्ताज्ञानविषयभूते यणुकादौ अतिव्याप्तिरित्याशंकां निराचिकीर्षु रभिप्रायंवर्णयति | संदेहमित्यादिना एवकारेण कोट्युपस्थितीतादृशरूपेणहेतुताव्यवच्छेद : तादृशधर्मेति साधारण्यादिविशिष्ठधर्मेत्यर्थः । मात्रपदेन | धर्मिविषयकत्वस्य कोटिइयोपस्थितिजनकतावच्छेदकघटकत्वव्यवच्छेदः तथाच कोटिइयोपस्थितिजनकतावच्छेदकीभूता या विषयता तदवच्छेदकधर्मवत्वं नोतस्थलेक्ष्यणुकादौ अणुत्वादिविषयतायाएव तथात्वादिति नातिव्याप्तिरितिभावः । अथैतन्मते * संशयंप्रतिसाधारणधर्मवद्धर्मिज्ञानत्वेन हेतुताया आधिक्यात् (१) गौरवमिति चेन्न भवन्मतेपि कोटिद्वयोपस्थितिप्रति तेनरूपेणहेतुतायाआधिक्यात् संबंधिहस्त्यादिविशेष्यकज्ञाना द्धस्तिपकादिस्मृतेरिव तत्कोटिसहचरितधर्मविशेष्यकज्ञानादपि तत्कोटिस्मृते निविवादतया साधारणधर्मविषयकज्ञानत्वेन कोट्युपस्थितिहेतुताया उभयवादिसिद्धत्वात् । तस्मात्कोटयुपस्थितौ साधारणधर्मवद्धर्मिज्ञानत्वेन संशयंप्रतिच साधारणधर्मवद्धर्मिज्ञानजन्य कोटचुपस्थितित्वेन हेतुत्वमिति पूर्वपक्षलक्षणोपष्टंभकमतापेक्षया संशयं प्रति साधारणधर्मवद्धर्मिज्ञानत्वेन साधारणधर्मज्ञानजन्य कोट्युपस्थितित्वेनच हेतुतामतमेवसयुक्तिकं अथास्तुकोट्युपस्थितौ साधारणधर्मज्ञानत्वेनैव हेतुता तथापि संशयेधर्मिभाननियमाय तत्रसाधारणधर्मवद्धर्मिज्ञानत्वेन हेतुत्वमफलं कोट्युपस्थिते: संशयहे|तुतायां साधारणधर्मज्ञानजन्यत्वनिवेशस्थाने साधारणधर्मवद्धर्मिज्ञानजन्यत्व निवेशनादेव तन्नियमोपपत्तेः । स्वतंत्र कारणताकल्पनापेक्षया क्लृप्तकारणताया मवच्छेदकगौरवस्यैवोचितत्वात् नच धर्मिज्ञानस्य संशयेसाक्षाद्धेतुताया अपिलृप्तत्वात्तत्रसाधार(१) टिप्पणी - तदति रिक्त कारणच कल्पना दियर्थः । For Private and Personal Use Only XX
SR No.020372
Book TitleHetvabhas Savyabhichar
Original Sutra AuthorN/A
AuthorGangadhar Pandit
PublisherGangadhar Pandit
Publication Year
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy