________________
Shri Mahavir Jain Aradhana Kendra
***********************
www.kobatirth.org
दन्यावृत्तित्व घटिताया व्याप्ते रनुप्रवेशा लक्षणयोर्भेदः स्वव्यापकसामानाधिकरण्यरूप व्याप्तेरभावो निवेशयितु मशक्य: । | स्वत्व घटित तथा हेतुभेदेन भेदात् । साधारण हेतुकस्थले तदप्रसिद्ध्याअभावग्रहासंभवात् (१) शिरोमणिव्याख्यायां च तादृशव्याप्ते रप्रसिद्धावपि तद्घटकपदार्थानां परस्परोपश्लेषावगाहिज्ञान (२) विरोधिताया एव निवेशेनानुपपत्यभावा दयापकसामानाधिकरण्य मिह व्याप्यत्व मित्युक्तत्वात् । एवमेतन्मते दुष्टलक्षणपर एवायंग्रंथः नतु दोषलक्षणपरोपि तादृश व्याप्ति दयशून्यत्वस्य व्यभिचार पदार्थव्वाभावा दित्यवधेयं । तञ्चित्यमिति । चिंतावीजं वा साधारण्यशरीरे तत्तत्पुरुषीय निश्चय निवेशस्या वश्यकतया सामान्यलक्षणस्य पुरुषविशेष नियंत्रितत्वाप नचेष्टापतिः । तथासति साधारण हेता साधारण हेतु वदमुकं प्रत्ययं व्यभिचारीतिव्यवहारप्रसंगात् । एवं सव्यभिचारपदस्य पारिभाषिकत्व मपि तथेति । इतरभेदानुमाने वैय्यर्थ्य संभवे असाध कत्वानुमाने वैयर्थ्य परतया व्यर्थ विशेषणत्वा दिति मूलव्याख्यान मनुचित मित्याशयेन इतरभेदानुमाने वैय्यर्थ्यपरतयैव मूलं व्याचष्टे । व्यर्थेतीति । विरोधादे रित्यादिना अवृत्तित्वपरिग्रहः । साध्याभावेत्यादीति । साध्याभावव्याप्तिग्रहविरोत्वं वृत्तिमत्व| ग्रहाविरोधित्वं चेत्यर्थः । तस्य । विरोधादेः पार्थवचन व्यभिचारपदार्थवन्हिर्भूत वै । मानाभावादिति । तथाच विरोधादेरपि व्यभिचारपदार्थरूप पक्षेतर भेदसत्वेन तद्दयावर्तकविशेषणानवच्छिन्नस्यैव इतरभेदानुमापकत्व संभवादितिभाव। हेत्वाभास| पदस्यान्यथाव्याख्यानात्दुष्टहेतुस्वरूप हेत्वाभासत्वस्य लक्षणाघटकत्वात् प्रथममित्यादि दूषणस्यासंगतिः एवं गगन मनित्यं शद्वाश्रयत्वादित्यादी हेतो: “साध्याभावव्याप्यत्वेपि साध्याभावव्याप्तिग्रहविरोधि दर्शितधर्मवत्वं तत्राक्षत मेवेति तत्राव्याप्तिदान
(१) टिप्पणी-व्याप्यभाव ग्रहा संभवात् ।
(२) टिप्पणी - निरूप्य निरूपक भावा पन विषयता शालि ज्ञानं ।
Acharya Shri Kallassagarsuri Gyanmandir
For Private and Personal Use Only
K**************••••••XXK