________________
Shri Mahavir Jain Aradhana Kendra
गाढ़ा ० २१
*KHKHKY K J K K
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तया तस्मिन् साध्येज्ञानत्वादिकं व्यभिचार्ये वेत्यत आह आत्मवृत्तिवेति अप्रामाण्यं भ्रमत्वं नतु प्रमात्वाभाव रतस्य साध्याभावाघटितत्वात् तज्जन्यकोट्युपस्तितेर्वेति मतभेदेन तज्ज्ञानस्त्र प्रामाण्याप्रामाण्यसहचरितज्ञानत्ववत्ताज्ञानस्य तादृशसंशया हेतुत्वात् सविषयकत्वादि संशयजनककोटिद्वयोपस्थित्यहेतुत्वात् प्रामाण्यसंशयात्मक कोटिडयोपस्थितिजनकत्वेपि प्रामाण्यसंश यस्य कथितार्थसंशयहेतुताया अप्रामाणिकतया तादृशकोट्युपस्थितेः साध्यसंशयाहेतुत्वादितिभावः ननु विनापि साधार| णादिधर्मज्ञानं प्रामाण्यसंशयस्थले विषयसंशयोदयात् साधारणादिधर्मवत् प्रामाण्यसंशयस्य संशयजनकत्व मावश्यक मित्यत आह प्रामाण्यसंशयेति ज्ञानत्वलक्षणसमानधर्मदर्शनात् प्रामाण्याप्रामाण्यसहचरितज्ञानत्ववत्ता ज्ञानात् प्रामाण्यस्य संदेह इति योजना एतच्च दृष्टांत विधयोक्तं ज्ञानविषयतात्मकसाधारणधर्मदर्शनात् तत्प्रकारकज्ञान विशेष्यत्वरूपतत्तदभावसहचरितधर्मवत्ताज्ञानात् विषये घटज्ञानादौ तद्दत्त्वस्य सविषयकत्वादेः संदेहः तादृशधर्मवत्ताज्ञानासत्वे च संशयो ऽसिद्धएवेति भाव: ॐ नन्वेवमर्थ-निश्चयदशायां सत्यपि साधारणादिधर्मज्ञाने प्रामाण्यसंशये ऽर्थसंशयः असतितु तस्मिन्ने त्यन्वयव्यतिरेकानुविधानं नोपपयत इत्यत आह अप्रामाण्यसंशयेति तदपसारणप्रयुक्तं तादृशविशिष्टप्रतिबंधकाभावसंपादकत्वनिबंधनं तथाच प्रयो जकत्वेनैवान्वयव्यतिरेकानुविधानोपपत्ते नतत्कारणता साधक मितिभावः व्याप्यसंशयस्येति व्याप्यतदभावयो व्यापकतदभाव सहचरिततया साधारणधर्मदर्शनविधयैव व्याप्यसंशयो व्यापकसंशयहेतुः धर्मस्यैकताया ज्ञानस्य निश्चयताया अप्रयोजकत्वात् यदाच व्याप्याभावस्य व्यापकाभाव साहचर्य्यन्न प्रतिसंधत्ते तदा धर्मिणितद्व्याप्यधर्म संशयानोपि न तं संदिग्ध इति स्वीयमते (१) साध्यसंशयजनकतावच्छेदकप्र कारत । वच्छेदक साध्याभाववद्वृत्तित्वस्य व्याप्ये ऽसत्वेनातिव्याप्त्यनवकाशात् पृथगिति हेतुत्वविशेष(१) टिप्पणी - इति व्यापक संशयं प्रति व्याप्य संशवस्य हेतुता वादि मते ॥
*
For Private and Personal Use Only
KJKJKJKJKJKJKJKJKJKJK JH.
२१