________________
Shri Mahavir Jain Aradhana Kendra
गाढ़ा० १९
****
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
व्यापत्तेः । एतेन याव त्प्रकारता निवेशपक्षेपि सव्यभिचारिताघटक संबंधावच्छिन्न निरुक जनकतावच्छेदक प्रकारताया यावत्त्वेन ननिवेशः । अयमात्माज्ञानादित्यादावतिव्याप्तेः । अपितु निरुक जनकतावच्छेदकीभूता यावत्य: प्रकारताः सव्यभिचारताघटक संबंधावच्छिन्नानां तासां प्रत्येकावच्छेदकरूपवत्त्वं निवेश्यं एवंचा यमात्माज्ञानादित्यादौ नोक्त क्रमेणा तिव्याप्ति संभव: विषयितासंबंधावच्छिन्ननिरुक जनकतावच्छेदकज्ञानादिप्रकारताना मपि निरुक्त यावत्प्रकारतांतर्गततया सव्यभिचा | रिताघटक संबंधावच्छिन्नत्वस्य तत्रासत्वेन तेन रूपेण तदुपादानासंभवात् तथाच तावता व्याप्यसंशयहेतुता मादायाप्यऽतिप्रसं गवारण संभवेन विशेष्यता यावस्वे न निवेशनं ज्ञानपदस्य निश्वयपरत्वं च नयुक्त मिति पूर्वपक्षानवकाशः अथवा व्याप्य | संशयस्य साधारणधर्मवत्ताज्ञानांतर्भावमते एकैककोटि सामानाधिकरण्य मादाय सद्धेतावतिप्रसंगवारणाय यत्किंचि त्संशयजनकतावच्छेदकयावत्प्रकारतापर्यंतं निवेशनीयं व्याप्यसंशयस्य पृथक् कारणतामते तु नोक्तक्रमेण सद्धेता वतिप्रसंगशंकाव काशः तन्मते कोटिइय सामानाधिकरण्यावच्छिन्नत्वेनैव प्रकारताया जनकतावच्छेदकत्वोपगमात् एकैककोटिसाहचर्य्यावच्छिनप्रकारतायाः संशयजनकतानवच्छेदकत्वात् अतो यावत्प्रकारकतानिवेशनं संशये यत्किचित्त्वनिवेशनंच न कर्त्तव्यम् अपितु व्याप्यसंशयहेतुता मादाया तिप्रसंगवारणाय ज्ञानपदमेव निश्चयपर मुपगंतव्य मित्येव व्याप्यसंशयेत्यादिना अभिहितम् नच धर्मैक्यस्य संशयजनकतायां तंत्रतामतेपि कोटिइयसामानाधिकरण्यावच्छिन्नत्वेनैकत्र निवेष्यते विशेष्यविशेषणभावे विनिगमनाविरहात् अपितु प्रत्येकसामानाधिकरण्यावच्छिन्नत्वं प्रत्येकं निवेश्य कारणताइयमेव कल्प्यते धूमसहचरितवन्हिमत्ताज्ञान धूमाऽभावसहचरितवन्हिमत्ताज्ञानयोः परस्पर सहकारित्वा न्न कोटिद्वयसहचरित विभिन्न धर्मवत्ताज्ञाना त्संशयप्रसंग: धूमसहचरितवन्हिमान् तदभावसहचरितवन्हिमा नितिज्ञानद्वयादितोपि संशय: स्वीक्रियते तथाच सदेतावतिप्रसंगवारणाय याव
For Private and Personal Use Only
*** •••••••••••••NK36
१९