________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyarmandir
आह । असिद्धीति । साधारण्यत्रम मादायेति । यथायथं साध्याभाववृत्तित्वं साध्यवत्तित्वांशे भ्रमात्मकं साधारण ज्ञान मादायेत्यर्थः । धर्मणि फलीभूत संशयधर्मितावच्छेदकता पर्याप्यधिकरणा वच्छिन्ने । यद्रूपावच्छिन्नवत्ताज्ञानं । यद्रूपावच्छिन्न प्रकारता शालि ज्ञानत्वावच्छिन्नं । साध्यसंदेहजनक मिति । एतच्च संशयं प्रति कोट्युपस्थिति विशेषणज्ञानादि मुद्रयैव हेतु साधारण धर्मवद्धर्मि ज्ञानं च साक्षादेव तथेति निष्कृष्टमते कोट्युपस्थितिजनकत्वा घटितमेव लक्षणं कर्तव्य मित्यभिप्रायेण| यथाश्रुत मूलानुरोधे तु संशयजनक कोटिहयोपस्थिति जनकृत्व मेव निवेशनीयम् । साध्यसंशयजनकं साध्यसंशयजनक कोटिहयोपस्थिति जनक मित्यपि व्याचक्षते तन्मते धर्मिणीति प्रकारतात्वेनावच्छेदकतालाभायेतिध्येयम् । अथैवम् साधारण्यादिघटक केवलसाध्यवदृत्तित्वाद्यवच्छिन्नत्व मादायातिप्रसंगो दुर्वारः। (१) नच धर्मितावच्छेदकावाच्छन्नविशेष्यतानिरूपित यद्रूपावच्छिन्न प्रकारता शालिज्ञानत्वं संशयजनकता नतिरिक्तवृत्ति तद्रूपवत्वस्य साध्यसंशयजनकतावच्छेदकीभूता या धर्मितावच्छेदकावच्छिन्नविशेष्यतानिरूपितप्रकारता तदवच्छेदकतापर्याप्त्यधिकरणधर्मवत्वस्य वा निवेशान्नातिप्रसंगः (२)। संशयंप्रति कोटिव्यसाहचर्यायवच्छिन्नप्रकारताशालिनिश्चयत्वेन साधारण्यादिविशिष्टधर्मवत्ताज्ञानस्यै वैकहेत्तुता कल्पना देकैककोटिक्ससाहचर्याद्यवच्छिन्नप्रकारताशालिज्ञानस्य संशयाजनकतया उभयकोटिसाहचर्यादेरेव तादृशधर्मत्वा दितिवाच्यम् । उक्तरूपेणैकैकहेतुताकल्पने एककोटिसाहचर्य्यावच्छिन्नत्व विशिष्टा परकोटिसाहचर्यावच्छिन्नत्वेनैव प्रकारताया निवेशनीय
(६) टिप्पणी-धूमे ऽतिव्याप्ति विशिष्टान्तरा घटितत्व निवेशनेन वारणेपि वन्हि तदभाव समानाधिकरण द्रव्यत्व वत्पर्वत वृत्ति धूमवान पर्वत इति sal ज्ञान मादाय अयं नित्यो ज्ञानादि त्यादौ धर्मि ज्ञान विधया हेतुत्व मादाया तिव्याप्ते द्वितीय कल्पादरः ॥
(टिप्पणी-यावत्वा भावात् प्रमीय प्रकारतावच्छेदकता निवेशयितुं शक्यत एवे त्याशयः ॥
For Private and Personal Use Only