SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शिरो ० ७ KKNKXKAKKKKKKKKKKK www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir भूताभावप्रतियोगित्वज्ञानात् साध्यस्य साध्यव्यापकीभूताभावप्रतियोगित्वज्ञानाच्च साध्याभावस्य साधनायोन्मखो मिथो विरो|धेन नैकमपि साधयति । न च शब्दे नित्यत्वानित्यत्वसंदेहे तदुभयव्यापकत्वं शब्दत्वाभावस्य ग्रहीतुमशक्यं व्यापकत्वाभि|मतशब्दत्वाभावाभाववच्छब्दवृत्तित्वस्य नित्यत्वानित्यत्वयोः संदिह्यमानत्वादिति वाच्यं तथात्वेऽपि तादृशसंशयाभावदशायां | तथात्वनिश्चये तदुभयव्यापकीभूताभावप्रतियोगिशद्दत्ववत्त्वस्य शब्दे प्रतिसंधातुं शक्यत्वात् स्वाश्रयमप्रतीत्यैव प्रतीतस्य | सौरभादेरभावस्य पानीयपाषाणादौ पृथिवीत्वतदभावसहचारेण तदुभयव्यापकताग्रहे तादृशाभावप्रतियोगिसौरभस्य चंदनादौ परामर्शे पृथिवीत्वादौ साध्ये तदसाधारण्यस्यातिसुलभत्वाच्च । नन्वयं सत्प्रतिपक्ष एव व्याप्तेरन्वयनिरूप्यत्वस्याव्यापकत्वेनाप्रयोजकत्वादित्यत आह सत्प्रतिपक्ष इति । नचैवं विधभेदेन पृथगभिधानेऽति प्रसंगः स्वतंत्रेच्छाया इत्यादेर्ग्रन्थरुतैवाभिधानात् | तदभावसाधके तत्साधकत्वभ्रमरूपाशक्तिविशेषसूचनार्थत्वाच्च सत्प्रतिपक्षसव्यविचारोभयलक्षणाकांततया उभयांतर्भावस्था| विरुद्धत्वादित्यपि कश्चित् । सर्वसपक्षेति सपक्ष: साध्यवान् पक्षवृत्तित्वे सति साध्यव्यापकीभूताभावप्रतियोगित्वमित्यर्थः । इदंच साक्षादनुमितिविरोधि विरोधश्च साध्यासामानाधिकरण्यादिरूपोऽन्वयव्याप्तिग्रहाविरोधीति न सांकर्ण्यशंकापि साध्यस मानाधिकरणंतु नासाधारणं दशाविशेषे तद्धमस्तु पुरुषदोषो व्याप्य इव साधारण्यभ्रमः । नवीनाः पुनरेवं वर्ण्यति सामग्री हैयविरोधेन हेत्वभावस्य साध्यतदभावव्यापकताग्रहविरोधोऽसाधारणस्य दूषकतावीजं तथाहि वृत्तिमताहेतुना क्वचिदपि वर्त्तितव्यं । तत्र चावश्यं साध्यतदभावयोरन्यतरेण भवितव्यं न च तत्र हेत्वभावः संभवति अतोऽवश्यमन्यतराव्यापकत्वं तस्य एवंविधविरोधधौव्ये साध्येन तदभावेन च हेत्वभावस्य सहचारज्ञानं नैकतरनिरूपितामपि व्यापकतां ग्राहयति मिथो विरोधात् विरो| धिपरामर्शद्वयमेव साध्यतदभावौ एवंच वृत्तिमत्त्व विशेषितं हेतोर्यावद्विपक्षसपक्षव्यावृत्तत्वं वृत्तिमत्प्रतियोगित्वविशेषितं वा For Private and Personal Use Only ॐ***********************
SR No.020372
Book TitleHetvabhas Savyabhichar
Original Sutra AuthorN/A
AuthorGangadhar Pandit
PublisherGangadhar Pandit
Publication Year
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy