________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
学法米米米号》米米米米米米米紫米米米米米
ऽप्यन्वेति तेन साध्याभाव न्यूनवृत्तव्युदास : विपक्षत्वस्य निश्चयगर्भत्वात् भूरनित्या गंधवत्वात् नित्य : शदः शद्दत्वादित्यादौ नान्याप्तिः पृथिवी रूपवती रसादित्यादौ जलादेर्नीरसत्वभ्रमे पुनरसाधारण्यभ्रम एवेति मंतव्यम् । तथापीति पक्षत्वं संदिग्धसाधकत्वं मतं दूषयति अथेत्यादि । व्याप्तीति तथाच स्वतो दूषणाक्षमत्वान्नाभाषत्वम् उपाधिवदिति भाव: एकथर्मिव्या. वृत्तत्वंच न सामानाधिकरण्यग्रहविरोधिधर्म्यन्तरे तत्संभवात् अन्यथा सतोरपि साध्यसाधनयोर्व्यतिरेकित्वं दोषायस्यात् अथायं शंकितुरभिप्रायः पक्षे साध्यानावस्य संशयो निश्चयश्चानुमितिविरोधी विरोधिविषयकत्वात् तत्सामग्री च विरोधिसामग्रीत्वेन बादिमस्य सामग्रीमक्षे सव्यभिचारस्य हेतोय॒हः द्वितीयस्य प्रतिहेतोः परामर्शः अतस्तयोराभासत्वम् अतएव सव्यभिचार लक्षणे पक्षवृत्तित्वं विशेषणं साध्याभाववत्तित्वमानं पुनरसिद्धिरेवेति विरोधान्यस्य परामर्शविरोधिनो रूपस्य तत्त्वादिति मैवं *बाधसंशयस्य प्रतिबंधकत्वानंगीकारात् साधारणधर्मवत्ताज्ञानस्य संशयसामयित्वाभावात् सामयित्वेन प्रतिबंधकत्वे हेत्वाभा
सत्वायोगाच्च अन्यथा पक्षस्य साध्यतदक्षावावदृत्ति प्रमेयत्वादिमत्त्वं सर्वत्र हेतावाभासीभवेत् तथा कामिनीजिज्ञासाप्रयोजक तज्ज्ञानेष्टसाधनत्वादिकमपि । एवं विशिष्टस्यानुद्भाव्यत्वं व्युत्पाद्य केवलस्यापि सपक्षव्यावृत्तत्वस्य तथात्वं व्युत्पादयति किंचेति । वायुपदर्शिनदृष्टांतस्य साधनवैकल्यंतु नासाधारण्यं सपक्षान्तरवृत्तित्वेऽपि तत्संभवात् तद्भावनंतु तस्य निग्रहस्थानत्वात् तहिभाजकसूत्रस्थानुक्तसमुच्चायकचकारेण तस्य समुच्चितत्वात् तदाहरणस्याभासता प्रदर्शनायैव वा आवश्यकश्च प्राचां दृष्टांतप्रयोग इति भावः। माभूत् परार्थानुमानेऽऽसाधारण्यं दोषः स्वार्थे तु स्यादत आह स्वार्थेति । स्वमते सिद्धांतमुपक्रमते उच्यत इति अर्थादिति व्यतिरेकिमुद्रया अर्थाटुभयं साधयेत् अर्थवशसंपन्नमेवोभयसाधकत्वम् उभयसियनुकूलव्याप्त्यादिग्रहादित्यर्थः व्यतिरेकितया वेति पाठे अर्थात् अर्थापत्तिविधयेति परमतेन एवंच पक्षधर्मतया ज्ञायमानो हेतुः साध्याभावव्यापकी
For Private and Personal Use Only