SearchBrowseAboutContactDonate
Page Preview
Page 736
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir તૃતીયસ્થાન-અધ્યાય છેતાલીસમા षट्चत्वारिंशोऽध्यायः । ઇંદ્રલુસ રોગની ચિકિત્સા. ઇંદ્રલુપ્ત રોગનાં લક્ષણ आत्रेय उवाच । केशनस्य चिकित्सां तु शृणु हारीत! साम्प्रतम् । रूक्षं सपाण्डुरं वातात्पित्ताद्रकं सदाहकम् ॥ कफान्वितं भवेत् स्निग्धं रक्तात्पाकं व्रजेद्धि तत् । सन्निपातेन सदृशं जायते सर्वलक्षणम् ॥ गुडेन सुरसाशुण्ठीमातुलुङ्गरसेन तु । केशने वातसम्भूते धावनं च प्रशस्यते ॥ त्रिफलावचारोहितं गुडेनापि प्रपेषितम् । धावनं कफसम्भूते चैन्द्रलुप्ते प्रशस्यते ॥ पैत्तिके च हितं दुग्धं नवनीतान्वितं तथा । सिताशिवाफलं यष्टी पैत्तिके धावनं मतम् ॥ भृङ्गराजरसं ग्राह्यं शृङ्गवेररसं तथा । सौवीरकरसेनापि तिलान् पिष्ठा प्रलेपनम् । पश्चात्कार्य पुरुषेण स्नानमुष्णेन वारिणा ॥ धवार्जुनकदम्बस्य शिरीषमपि रोहितम् । क्वाथमेषां शिरोदडून शमयेदिन्द्रलुप्तकम् ॥ कुरबकस्य पुष्पेन जपायाः कुसुमेन च । घृष्टस्य चेन्द्रलुप्तस्य कृतमेव निवारणम् ॥ पैत्तिकानि च लिङ्गानि दृष्ट्वा दुग्धेन धावनम् । शीतलानि प्रदेयानि पैत्तिके च विधीयते ॥ धत्तरपत्राणि च मागधीनां निशाविशालागृहधूमकुष्टम् । घृतेन युक्तं च जलेन पिष्टं शिरः प्रलिप्तं क्षतवारणं स्यात् ॥ For Private and Personal Use Only ૮૯
SR No.020371
Book TitleHarit Samhita
Original Sutra AuthorN/A
AuthorAatrey Muni
PublisherJayram Raghunath
Publication Year1892
Total Pages890
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy