SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्रीः । हरीतक्यादिनिघंटे दुग्धदधितक्रघृतमूत्रवर्गः । Acharya Shri Kailassagarsuri Gyanmandir दुग्धस्य नामगुणाः. दुग्धं क्षीरं पयः स्तन्यं बालजीवनमित्यपि । दुग्धं सुमधुरं स्निग्धं वातपित्तहरं सरम् ॥ १ ॥ सद्यः शुक्रकरं शीतं सात्म्यं सर्वशरीरिणाम् । जीवनं बृंहणं बल्यं मेध्यं वाजीकरं परम् ॥ २॥ वयःस्थापनमायुष्यं सन्धिकारि रसायनम् । विरेकवान्तिवस्तीनां तुल्यमोजोविवर्धनम् ॥ ३ ॥ जीर्णज्वरे मनोरोगे शोषमूर्च्छाभ्रमेषु च । ग्रहण्यां पाण्डुरोगे च दाहे तृषि हृदामये ॥ ४ ॥ शूलोदावर्त्तगुल्मेषु बस्तिरोगे गुदाङ्कुरे । रक्तपित्तेऽतिसारे च योनिरोगे श्रमे लमे ॥ ५ ॥ गर्भस्रावे च सततं हितं मुनिवरैः स्मृतम् । बालवृद्धक्षतक्षीणाः क्षुद्व्यवायकशाश्च ये ॥ ६ ॥ तेभ्यः सदातिशयितं हितमेतदुहाहृतम् । गव्यं दुग्धं विशेषेण मधुरं रसपाकयोः ॥ ७ ॥ शीतलं स्तन्यकुत्स्निग्धं वातपित्तास्त्रनाशनम् । दोषधातुमलस्रोतः किञ्चित्क्लेदकरं गुरु ॥ ८ ॥ ज्वरे समस्तरोगाणां शान्तिकृत्सेविनां सदा । ३९ For Private and Personal Use Only
SR No.020370
Book TitleHarit Kyadi Nighant
Original Sutra AuthorN/A
AuthorRangilal Pandit, Jagannath Shastri
PublisherHariprasad Bhagirath Gaudvanshiya
Publication Year1892
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy