________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८८
हरीतक्यादिनिघंटे
अथ सक्तवः धान्यानि भ्राष्ट्रभृष्टानि यन्त्रपिष्टानि सक्तवः । यवजाः सक्तवः शीता दीपना लघवः सराः ॥ १६० ॥ कफपित्तहरा रूक्षा लेखनाच प्रकीर्तिताः । ते पीता बलदा वृष्या बृंहणा भेदनास्तथा ॥ १६१॥ तर्पणा मधुरा रुच्याः परिणामे बलापहाः। कफपित्तश्रमक्षुत्तृवृद्धि नेत्रामयापहाः ॥ १६२॥ प्रशस्ता धर्मे दाहाढयव्यायामार्तशरीरिणाम् । निस्तुषैश्चणकै ष्टैस्तुर्यांशैश्च यवैः कृताः॥ १६३॥ सक्तवः शर्करासर्पियुक्ता ग्रीष्मेतिपूजिताः। सक्तवः शालिसम्भूता वह्निदा लघवो हिमाः ॥ १६४॥ मधुरा ग्राहिणी रुच्या पथ्याश्च बलशुक्रदाः। न भुक्त्वा न रदैश्छित्वा न निशायां नवा बहून् ॥१६५॥ न जलान्तरितान् तद्धि सक्तनद्यान्न केवलान् । पृथक् पानं पुनर्दानं आमिषं पयसा निशि ॥ १६६ ॥ दन्तच्छेदनमुष्णां च सप्त सक्तुषु वर्जयेत् ।। यवास्तु निस्तुषा भृष्टाः स्मृता धाना इति स्त्रियाम् ॥१६७॥ धानाः स्युर्दुर्जरा रूक्षा स्तृप्रदा गुरवश्च ताः। तथा मेहकफच्छर्दिनाशिन्यः सम्प्रकीर्तिताः ॥ १६८॥ येषां स्युस्तण्डुलास्तानि धान्यानि सतुषाणि च भृष्टानि स्फुटितान्याहु जानिति मनीषिणः ॥ १६९॥ लाजाः स्युर्मधुराः शीता लघवो दीपनाश्च ते । स्वल्पमूत्रमला रूक्षा बल्या पित्तकफच्छिदः ॥ १७०॥ छर्यतीसारदाहास्त्रमेहमेदस्तृषापहाः।
For Private and Personal Use Only