________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२७८
हरीतक्यादिनिघंटे अथ तलितमांसगुणाः शुद्धमांसविधानेन मांसं सम्यक्प्रसाधितम् । पुनस्तदाज्ये सम्भृष्टं तलितं प्रोच्यते बुधैः ॥ ९२ ॥ तलितं बलमेधाग्निमांसौजः शुक्रवृद्धिरुत् । तर्पणं लघु सुस्निग्धं रोचनं दृढताकरम् ॥ ९३ ॥ कालखण्डादिमांसानि ग्रन्थितानि शलाकया । घृतं सलवणं दत्वा निर्धूमे दहने पचेत् ॥ ९४॥ तत्तु शुल्यमिदं प्रोक्तं पाककर्मविचक्षणैः । शूल्यं पलं सुधातुल्यं रुच्यं वह्निकरं लघु ॥ ९५ ॥ कफवातहरं बल्यं किञ्चित्पित्तकरं हि तत् । शुद्धमांसं तनूकृत्य कर्त्तितं स्वेदितं जले ॥ ९६ ॥ लवङ्गहिङ्गुलवणमरिचार्द्रकसंयुतम् । एलाजीरकधान्याकनिम्बूरससमन्वितम् ॥ ९७ ॥ घृते सुगन्धे तद्दृष्टं मांसं शृंगाटकोच्यते । मांसं शृंगाटकं रुच्यं वृंहणं बलगुरु ॥ ९८ ॥ वातपित्तहरं वृष्यं कफघ्नं वीर्यवर्धनम् । सिद्धमांसरसो रुच्यः श्रमश्वासक्षयापहः ॥ ९९॥ प्रीणनो वातपित्तघ्नः क्षीणानामल्परेतसाम् । विश्लिष्ट भग्नसन्धीनां शुद्धानां शुद्धिकाङ्क्षिणाम् ॥ १०० ॥ स्मृत्योजोबलहीनानां ज्वरक्षीणक्षतोरसाम् । शस्यते स्वरहीनानां दृष्ट्वायुः श्रवणार्थिनाम् ॥ १०१ ॥ प्रकाराः कथिताः सन्ति बहवो मांससम्भवाः । ग्रन्थविस्तारभतेस्ते मया नात्र प्रकीर्त्तिताः ॥ १०२ ॥ टीका - शुद्धमांसकी विधिसें मांसकों अच्छीतरह पका करकै फिरसें उसकों
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only