SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्रीः । हरीतक्यादिनिघंटे अथ शाकवर्गः । Acharya Shri Kailassagarsuri Gyanmandir तत्र शाकनिरूपणं गुणाश्च. पत्रं पुष्पं फलं नालं कन्दं संस्वेदजं तथा । शाकं षडिधमुद्दिष्टं गुरु विद्याद्यथोत्तरम् ॥ १ ॥ प्रायः शाकानि सर्वाणि विष्टम्भीनि गुरूणि च । रूक्षाणि बहुवचसि सृष्टविष्मारुतानि च ॥ २ ॥ शाकं भिनत्ति वपुरस्थिनिहन्ति नेत्रं, वर्णं विनाशयति रक्तमथापि शुक्रम् । प्रज्ञाक्षयं च करुते पलितं च नूनं हन्ति स्मृतिं गतिमिति प्रवदन्ति तज्ज्ञाः ॥ ३ ॥ शाकेषु सर्वेषु वसन्ति रोगास्ते हेतवो देहविनाशनाय । तस्माद्बुधः शाकविवर्जनं तु कुर्यात्तथाम्लेषु स एव दोषः ॥ ४ ॥ एतानि शाकनिन्दकानि वचनानि सामान्यानि । अथ शाकेषु विशिष्टानि वचनानि तत्र पत्रशाकानि । तत्रापि वास्तूकद्वयस्य नामानि गुणाश्च । वास्तुकं वास्तुकं च स्यात्क्षारपत्रं च शाकराट् । तदेव तु बृहत्पत्रं रक्तं स्याद्गौडवास्तुकम् ॥ ५ ॥ प्रायशो यवमध्ये स्याद्यवशाकमतः स्मृतम् । वास्तूकद्वितयं स्वादु क्षारं पाके कटूदितम् ॥ ६ ॥ दीपनं पाचनं रुच्यं लघुशुक्रबलप्रदम् । For Private and Personal Use Only
SR No.020370
Book TitleHarit Kyadi Nighant
Original Sutra AuthorN/A
AuthorRangilal Pandit, Jagannath Shastri
PublisherHariprasad Bhagirath Gaudvanshiya
Publication Year1892
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy