________________
सविवरणं श्रीज्ञाना
र्णव
HHERA
प्रकरणम् । ॥२४॥
अक्षरानव
स्तो मतिश्रुतमेदनिरूपणे परविप्रतिपत्तिखण्ड
नम॥
48644%BSPEEPER
ऐस' इति (२) सूत्रमुपतिष्ठत इत्युपपादितं भवति तथा च परादीनां बलवत्त्वव्याप्तौ सावकाशभिन्नत्वं सङ्कोचकविशेषणं देयमिति ४ व्युत्पादितं भवति,एवं च निरवकाशस्थले सावकाशप्रवृत्तेरसाधुत्वज्ञापकतयाऽस्योपयोगो नतु तत्प्रवृत्तिप्रतिबन्धकतया,अज्ञेन भ्रान्तेन
वा कृतस्य तादृशप्रयोगस्य साधुत्वप्रसङ्गात्, तदसाधुत्वज्ञापकान्तरकल्पने गौरवाद्, व्युत्पन्नस्य तथाप्रयोगकारणविघटकतया तदुपयोग इत्यपि कश्चित् ।। किश्चाऽवग्रहस्थले सावकाशं मतिज्ञानमपि कथं कल्पनीयमिति चेत्, न, क्लप्तश्रुतकारणाभावात् क्लुप्त मतिकारणसवाच्च, मतिज्ञानमेव तदोत्पत्तुमर्हतीति तात्पर्यात्, अपि चाऽक्षरानुगता श्रुतनिश्रिता मतिः, अन्या त्वश्रुतानिश्रितेत्यम्युपगमे औत्पत्तिक्यादेरपि श्रुतनिश्रितत्वप्रसङगादपसिद्धान्तः॥ आह च-"अह सयओ वि विवेगं, कुणओ ण तयं सुअं सुअं
णस्थि ।। जो जो सुअवावारो, अनो वि तओ मई जम्हा ।। १६५ ॥"[अथ श्रुततोऽपि विवेक, कुर्वतो न तच्छूतं श्रुतं नास्ति ।। | यो यः श्रुतव्यापारोऽन्योऽपि सको मतिर्यस्मात् ] "मइकाले वि जइ सुअं, तो जुगर्व महसुओवओगा ते ।। अह नेवं एगयर, पवज्जओ जुज्जए ण सुअं॥१६६॥" [मतिकालेऽपि यदि श्रुतं ततो युगपन्मतिश्रुतोपयोगी ते ॥ अथ नैवमेकतरं प्रपद्यमानस्य युज्यते न श्रुतम् ] "जइ सुअनिस्सिअमक्खर-मणुसरओ तेण मइचउक्कं पि || सुअनिस्सिअमावन, तुह तंपि जमक्खरप्पभवं ॥१६७॥" [यदि श्रुतनिश्रितमक्षरमनुसरतस्तेन मतिचतुष्कमपि ॥ श्रुतनिश्रितमापन्नं तव तदपि यदक्षरप्रभवम् ] ॥५२॥ ननु यद्यक्षरानुगतत्वं न श्रुतनिश्रितत्वं तर्हि किमन्यदिति जिज्ञासायामाह
श्रुताऽभ्याससमुदबुद्ध-क्षयोपशमसम्भवम् ।। श्रुतानुसारहीनं य-तदेव श्रुतनिश्रितम् ॥५३॥ श्रृतानुसारहीनं श्रुतनिश्रितमित्युक्ते औत्पत्तिक्यादावतिव्याप्तिस्तद्वारणाय श्रुताभ्यासेति विशेषणं, यद्यपि "भरनित्थरण
॥२४॥