SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Sh k enda RECENSARALE पर्यायविवेकः कथं नु भवेत् ॥ ५० ॥ अथैवं भ्रान्तस्योत्तरं निराकुरुते श्रुतनिश्रितभावेन, मतिरेषा यदि श्रुतम् ॥ तवग्रहरूपैव, मातिरन्यच्छ्रतं भवेत् ॥५१॥ श्रुते हि मतिविधोपदिष्टा श्रुतनिमित्तमवग्रहादिचतुष्टयमश्रुतनिश्रितमौत्पत्तिक्यादिचतुष्टयं चेति ।। तत्र चाक्षररूपतया श्रुतव्यापारात्मकं श्रुतनिश्रितमीहादिकं श्रुतमेव, मतिस्त्वन्यैवेत्यनक्षरमय्येव सेति पराशयोऽयुक्तः, अवग्रहरूपाया एव मतेः पर्यवसानप्रसङ्गादक्षररूपायाः श्रुतव्यापारात्मकत्वेन श्रुतत्वाद्, आह च-" सुअनिस्सिअवयणाओ, अह सो सुयओ मओ ण बुद्धीओ ।। जइ सो सुअवावारो, तओ किमन्नं मइनाणं? ॥ १६४ ॥" [श्रुतनिश्रितवचनादथासौ श्रुततो मतो न बुद्धेः ॥ यदि स श्रुतण्यापारः ततः किमन्यन्मतिज्ञानम् ॥] ॥५१॥ अभिप्रायान्तरं निराकुरुते श्रुतोदितविवेकश्चे-न्मतिरेवं श्रुतोच्छिदा॥ योगपy द्वयोभावे, एकदा चोपयोगयोः ।। ५२॥ यदि हि मत्यभावभिया श्रुतानुसारी ईहादिविशेषोऽप्यक्षरात्मकत्वान्मतिरेवेष्यते तनक्षरमेव श्रुतं मृगयमाणस्य कथं तदा। शापूर्तिस्तस्यैवाभावाच्छ्रुतजन्यस्याप्यक्षरात्मकत्वेन मतित्वाद् । अथ स्थाणुपुरुषविवेककाले तदा मतिः श्रुतं चेत्युभयं स्वीक्रियते केव ला तु मतिरनक्षरैव भविष्यतीति चेत्, न, एवं सति उपयोगयोगपद्यप्रसङ्गाद्,एकतरोत्पत्तिस्वीकारे च 'सावकाशानवकाशयोरनवकाशो विधिबलीयान् इति न्यायेनान्यत्रानवकाशस्य मतिज्ञानस्यैव स्वीकर्तुं युक्तत्वादिति माञ्चः ।। नन्वयं नात्रोपयुज्यते विधिविषयत्वात्तस्य, तथाहि निर-सहशब्दयोनिर्धनः सधन इत्यत्रेवाल्पबहुत्ववाचकत्वाद् 'बहुविषयादल्पविषयो विधिबलीयान्' इत्यर्थः, एवं च वृक्षरित्यत्र परमपि एद् बहुस्भोसि'इति(सिद्ध हैम १-४-४)सूत्रं बहुविषयत्वाद् बाधित्वा पूर्वमप्यल्पविषयं 'भिस MAKERCHOOLGIRCONSIDER अक्षरानक्ष रतो मतिश्रुतभेदनिरूपणे परविप्रतिपत्तिखण्ड नम् ॥ For Private And Personal use only
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy