________________
Shri Mahavir Jain Aradhana Kendra
www.khatirth.org
नायं न्याय: पृथग्भावे, तयोर्गुणकथा वृथा ॥ मतिर्वल्कं ततो भाव- श्रुतं सुम्वमिति स्थितिः ॥ ४८ ॥ सुम्बकदृष्टान्तो हि कार्यकारणयोरभेदमपेक्ष्य व्यवस्थितः कथं चेतनाचेतनधर्मयेोर्ज्ञानशब्दयोर्वक्तुमवकाशं लभेत १, 'अथ आयुर्धृतम्' इतिवद्भिन्नयोरपि तन्मयत्वव्यवहारो नानुपन्न इतिचेत्, न, तथापि सम्भवति मुख्यार्थे उपचारकल्पनाऽयोगात्तस्माद्वल्कसमा मतिः सुम्बसमं तु भावश्रुतं तस्य तत्पूर्वकत्वस्या (मा) गमे व्यवस्थितत्वादिति तदुभयनं युक्तम् || आह् च - "ण यदब्वभावमेते वि, जुज्जए सोsसमंजसओ ॥ १५८ ।। " [न च द्रव्यभावमात्रे ऽपि युज्यते सोऽसमञ्जसतः ॥] "जह वग्गा सुबत्तण-मुर्वेति सुंबं च तं तओनं ॥ ण मई तहा धणित्तण-मुवेह, जं जीवभावो सा || १५९||” [यथा वल्काः सुम्बत्वमुपयान्ति सुम्बं च तत्त तोऽनन्यत् । न मतिस्तथा ध्वनित्वमुपैति यज्जीवभावः सा ॥] "अह उवयारो कीर, पभवइ अत्यंतरं पि जं जत्तो ॥ तं तम्मयं ति भण्णइ, तो मइपुब्वं जओ भणियं ॥ १६० ॥" [अथोपचारः क्रियते प्रभवत्यर्थान्तरमपि यद्यस्मात् ॥ तत्तन्मयमिति भण्यते ततो मतिपूर्वं यतो भणितम् ॥] "भावसुअं तेण मई, वग्गसमा सुंबसरिसयं तं च ॥ जं चिंतिऊण तया, तो सुअपरिवाडि - मणुसरइ ॥ १६१||”[भावश्रुतं तेन मतिर्वल्कसमा, सुम्बसदृशं तच्च ।। यच्चिन्तयित्वा तया ततः श्रुतपरिपाटिमनुसरति ||]॥४८॥ नन्वेतदभिधानस्य हेतुफलभावेन भेदाभिधानात्को विशेष इत्यत्राह
दृष्टान्तेनामुनाऽभेदा- श्लिष्टभेदप्रदर्शनम् ॥ विशे षोऽस्य ततो हेतु-फलभावप्रदर्शनात् ॥ ४९ ॥ हेतुफलभावेन हि भेदमात्रं साध्यते, अनेन तु भेदाभेद इत्यनयोविंशेषः, तथाहि श्रुतं मत्यभिन्नत्वे सति तद्भिन्नं, एकद्रव्यत्वे सति तद्धेतुकत्वात्, यद् यदेकद्रव्यत्वे सति यद्धेतुकं तचदभिन्नत्वे सति ततो भिन्नं यथा वल्कैकद्रव्यं सुम्बं वल्क
For Private And Personal Use Only
Acharya Shel Kailassagarsun Gyanmandir
मतिश्रुतभेदनिरूपणे
वल्कसुम्बदृष्टान्तस्य वास्तवाभिप्रायप्रकटीकरणम् ॥