SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra /www.khatirth.org सहितमित्यस्य श्रुतानुसारेणेत्यर्थकत्वादग्रे एवकारयोजनाच्च श्रुतानुसारेणैव भाषमाणस्योभयश्रुतमित्यर्थः इत्थं चाग्रे इतरत्र मतिज्ञाने भवेच्छ्रतानुसारो यदि स्वोत्प्रेक्षामात्रमतितुल्यं भुतं भणे तदभणनांच्च न तदनुसारः, तं विना च न त्वदेकजीवितमुभयश्रुतमिति भावः ॥ ४४ ॥ प्रकारान्तरेण व्याचष्टे श्रुतं मत्युपलब्धार्थ, मतिसङ्गतमेव तत् ॥ तादृशं स्यात् तदान्यत्तु श्रुतं यदि समं भणेत् ॥ ४५ ॥ बुद्धया मतिलक्षणया, दृष्टा विवक्षिता, येऽर्थास्तान् भाषमाणस्य, मतिसहितमेव द्रव्यश्रुतं भवेत्, इतरत्र श्रुतविवक्षितप्रयोगस्थले च मतिसङ्गतं श्रुतं तदा स्यात् यदि श्रुतं मतितुल्यं कथयेत्प्रेक्षावान्, तच न कथ्यते श्रुतानुसाराननुसाराभ्यां तद्विशेषप्रतिपादनात्, अथ चेतरत्र तत्तदा स्याद् यदि श्रुतं मतिसमकालं भणेत्कश्चित्तदेव च भणितुमशक्यं उपयोगयौगपद्यनिषेधात् एवञ्च श्रुतोपयोगकाले मत्युपयोगा भावादेव न मतिसहितश्रुतमित्यर्थः, अथवेतरत्र मतिसङ्गतं श्रुतं तदा स्याद् यदि मया सह श्रुतं भणन्मत्युपयोगेन शब्दमुच्चरेदि त्यर्थः ॥ ४५ ॥ तदेवं सप्रसङ्गं पूर्वगतगाथाद्वयव्याख्यानेन समर्थित इन्द्रियभेदान्मतिश्रुतयोर्भेदः, अथ वल्कसुम्बोदाहरणात मभिधित्सुः प्रथमं परेषां तदुदाहरणोपन्यासविधि निराकुरुते केचिदाहुर्वक मां, मतिं, सुम्बसमं श्रुतं ॥ तदयुक्तं तथाऽभेदे, श्रुतोच्छेदादिदूषणात् ॥ ४६ ॥ केचिद् वदन्ति वल्कसदृशी मतिरेव सुम्बसदृशशब्दसन्दर्भकाले श्रुतत्वमास्कन्दति, तथा च श्रुतपदं कर्मव्युत्पच्या शब्दार्थकमिति, तदसत्, मत्युत्तरं शब्दमात्रस्य भावेऽपि भावश्रुतस्याभावाच्छन्द सन्निधिमात्रेण मतेः श्रुतत्वोपगमेऽतिप्रसङ्गात्साङ्कर्य - प्रसङ्गानिर्विशेषभावे विशेषाभिधायक श्रुताप्रामाण्यप्रसङ्गाच्च । आह च - " अन्ने मन्नंति मई, वाय ( बग्ग) समा सुबसरिसयं सुतं । For Private And Personal Use Only Acharya Shel Kailassagarsun Gyanmandir बल्कसुम्ब दृष्टान्तेन म |तिश्रुतभेदो पपादनं, तत्र परविप्रतिपत्तिख ण्डनम् ॥
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy