SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.ketatirth.org जानीहि ||] “ जे अक्खराणुसारेण, मईविसेसा तयं सुअं सव्वं ॥ जे उण सुअणिरवेक्खा, सुद्धं चिय तं मइनाणं ॥ १४४॥ " [ येऽक्षरानुसारेण, मतिविशेषास्तच्छुतं सर्वम् || ये पुनः श्रुतनिरपेक्षाः, शुद्धमेव तन्मतिज्ञानम् || ] अत्र 'सुअनाणं चैव जाणाहि ॥' [ श्रुतज्ञानमेव जानीहि ] इति पाठमुपेक्ष्य 'सुअनाणन्भंतरे जाण' [ श्रुतज्ञानाभ्यन्तरे जानीहि ] इति पाठकरणं चैवयोर्वैयर्थ्याच्छन्दोभङ्गभयादङ्गाभ्यन्तरादिपदवदभेदार्थकस्याभ्यन्तरपदस्यातिसान्निध्यव्यञ्जकत्वाच्छ्रुतपदस्य चतुर्दशपूर्व श्रुतार्थकत्वेऽभ्यन्तरपदस्य तज्जातीयत्वबोधकत्वाद्वेत्याहुः || ३५ ॥ ननु पदजन्यं ज्ञानमेव श्रुतं, तदुपजीविज्ञानान्तरं तु मतिरेव, नहि तदुपजीवित्वेन तत्त्रं नाम, प्रत्यक्षोपजीवित्वेनानुमानस्यापि प्रत्यक्षत्वप्रसङ्गात् इति चेत्, उच्यते श्रुतानुसारिणी बुद्धि-र्मतिरेव यदीष्यते । तदा षट्स्थानता भज्येत्, स्वस्थाने वा मियस्तयोः ॥ ३६ ॥ यदि पदजन्यो बोध एव श्रुतं तदनुस। रिविशेषभानं तु मनसोपनीयमानं मतिरेव, तर्हि श्रुतस्यापि मननलक्षणेन मतित्वातदुच्छेदप्रसङ्गे कथं मतिश्रुतयोः पदस्थाननिवेशव्यवस्था, अस्तु वा तत् श्रुतं तथापि तस्य प्रयोगाधीनत्वात्प्रयोगस्य सङ्ख्येयवर्षायुषां सख्येयविषयस्यैव सम्भवात् स्वस्थाने सध्येयेनैव न्यूनाघि कभावव्यवस्था स्यान्मतिज्ञानस्य च सर्वदा प्रयुज्यमा - नानन्तगुणविषयत्वान्मतिश्रुतयोर्मिथोऽनन्ततैव सा स्यादिति श्रुतस्य स्वस्थाने मतिश्रुतयोश्व मिथः षट्स्थानोपनिपातोच्छेदः ॥ आह च - " के अभासेता, सुअमणुसरओ वि जे महविसेसा | मण्णंति ते मइ चिप, भावसुआभावओ तन्नो ॥ १४५ ॥ किह महसुअनाणविऊ, छट्टाणगया परोप्परं होज्या || भासिज्जंतं मोतुं, जइ सब्बं सेसयं बुद्धी ॥ १४६ ॥ " [ केचिदभाष्यमाणाः श्रुतमनुसरतोपि ये मतिविशेषाः || मन्यन्ते तान्मतिरेव भावश्रुताभावतस्तत्रो || कथं मतिश्रुतज्ञानविदः षट्स्थानगताः परस्परं ४ For Private And Personal Use Only Acharya Shal Kalasagarsun Gyanmandir इन्द्रियविभागान्मतिश्रु तभेदाभिधा ने साक्ष्योद्ध ताया: पूर्व गतगाथाया भाष्यानुसा रिविवरणम् ॥
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy