SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ HAAKADASIADRI अभिधेयत्वस्य केवलान्वयित्वात्, इति, तत्तुच्छं, सर्वमभिधेयं प्रमेयत्वादित्यत्राभिधाविषयत्वस्य साध्यत्वे सिद्धसाधनादनभिलाप्यानामप्यनभिलाप्यपदाभिधेयत्वात, तत्तत्पदबोध्यत्वप्रकारित्वावच्छिन्नेच्छाविषयत्वस्य साध्यत्वे क्वचिदेकस्येव सर्वस्यापि सक्केतग्रहासम्भवेन विपक्षबाधकतर्कविरहेणाप्रयोजकत्वात्, न च विपक्षस्याऽभिधानानमिधानाम्यां व्याघात एव तद्बाधकस्तर्कः, अनभिधानेऽपि वस्तुस्वरूपाप्रच्युतेः, अथ न सङ्केतमात्रमभिधा, आधुनिकसङ्केतितेष्वपि तत्प्रसक्यात, सादी वाऽस्मदादिसङ्केतानुत्थानाच, किन्त्वीश्वरेच्छेव सा, तस्याच नित्यतया न कारणविरहप्रयुक्तो विरह इति तद्विषयत्वमेव सार्वत्रिकमनुमेयमिति चेत, न, शाब्दबोधानुकूलसङ्केतमात्रस्यार्थोपस्थापकत्वात्सर्गादेरसिद्धरीश्वरस्याप्यसिद्धेस्तज्ज्ञानविषयत्वस्येव तदिच्छाविषयत्वस्थ साध्यत्वेऽप्युद्देश्यासिद्धेस्तदिच्छाविशेषविषयत्वस्य साध्यत्वेअयोजकत्वाद्, अर्थानां बाहुल्येन शब्दानां चाल्पत्वेन सर्वत्र तदप्रसरात, न हि तत्तत्क्षणेष्वेवानन्तेषु विशेषपदप्रयोगः सम्भवी, किमङ्ग शेषेषु भावेषु, न चोलब्धेष्वपि बहुत्वं हेतूभवितुमुत्सहते, तथापि फलाभावे स्वरूपायोग्यत्वमेव हेतुरिति तत्रास्वाभाव्यमेव हेतुरुक्तः, उपायस्योपायान्तरादूषकत्वाद्वा, तदिदमाह-"कह मइसुओबलद्धा, तीरंति न भासिउं बहुत्ताओ ॥ सव्वेण जीविएण वि, मासइ जमणंतभागं सो ॥१३८॥" [कथं मतिश्रुतापलब्धास्तीयन्ते न भाषितुं बहुत्वात् ।। सर्वेण जीवितेनापि, भाषते यदनन्तभागं सः।।] "तीरंति ण वोत्तुं जे, सुओबलद्धा बहुत्तभावाओ ॥ सेसोवलद्धभावा साभव्वबहुत्तओमिहिआ ॥१३९॥" [तीयन्ते न वक्तुं, श्रुतोपलब्धा बहुत्वभावात् ।। शेषोपलब्धभावाः स्वाभाव्यबहुत्वतोऽभिहिताः ननु मतिश्रुतोपलब्धार्थानां कथमीदृशं बहुत्वं यदनन्तभाग एव कृत्स्नेनायुषा भाष्यत इति चेत्, उच्यते, तदनन्तभागनिवन्धस्यैव सूत्रोक्तत्वात, आह च-"कत्तो एत्तियमेत्ता, भावसुअमईण पज्जया जेसि ।। | गान्मतिश्रु तभेदाभिधाहै ने सर्वार्थानां वक्तुमयोग्यत्वं भाष्यानुसारिचचितम् ॥ 16CTextCit
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy