________________
Shri Mahavir Jain Aradhana Kendra
सविवरणं
श्रीज्ञाना
र्णवप्रकरणम् ।। ॥ ४ ॥
www.ketatirth.org
[ प्रत्यक्षं द्विविधं प्रज्ञतं । तद्यथा-इन्द्रियप्रत्यक्षं च नोइन्द्रियप्रत्यक्षं च ॥ ] [ परोक्षं द्विविधं प्रज्ञप्तं । तद्यथा-आभिनिबोधिकज्ञानपरोक्षं श्रुतज्ञानपरोक्षं चेति ।। ] प्रदेशान्तरे तस्य परोक्षत्वेनापि प्रतिपादनात्, न चाभिनिबोधकत्वस्य सामानाधिकरण्येन परोक्षत्वप्रतिपादनाच सूत्रविरोधः, ऐन्द्रियकस्य तस्य प्रत्यक्षत्वेऽपि लैङ्गिकस्य तस्य परोक्षत्वात् । एवं हि 'इंदिअपचक्ख'इत्यत्र प्रत्यक्षपदे न लक्षणाऽक्षप्रतिगतत्वस्य व्युत्पत्तिनिमित्तत्वेऽपि स्पष्टताया एव प्रत्यक्षपदप्रवृत्तिनिमित्तत्वात्, अत एवाक्षपदस्येन्द्रियार्थकत्वेऽपि न क्षतिः, प्रतिपूर्वादक्षिशब्दाच्चव्ययीभावापश्यैव न तादृशं रूपं 'अर्श आदेरचोऽसार्वत्रिकत्वात्' इत्याहुः । ज्ञानस्य स्वसंविदितत्वेन प्रत्यक्षेऽपि प्रत्यक्षवृत्तेस्तदपीष्टमित्यन्ये, विषयताया वृत्यनियामकत्वादिदम युक्तमित्यपरे, तादृशादपि प्रत्यक्षशब्दात् प्रत्ययान्तरमिच्छन्त्येके, न च लक्षणबाधाल्लक्षणाssवश्यकी, लक्षणासिद्धौ लक्षणबाघस्तत्सिद्धौ च सेत्यन्योन्याश्रयादिति चेत्, न, व्यवहारेण तथाबोधसम्भवेऽपि व्युत्पत्तिनिमित्तमेव प्रवृत्तिनिमित्तं व्यवस्थापयता निश्येन तथाबोधाऽसम्भवादुक्तव्यवस्थयैव सूत्रोपपत्तेः, तदिदमभिप्रेत्योक्तं 'तथा च सति मतिश्रुतयोः परोक्षत्वे तस्यापि पारमार्थिकं परोक्षत्वमेवेति' सामानाधिकरण्येन बाधानवताराच्च न सामाधिकरण्येन बोधकल्पनापीति प्रतिभाति । यत्तु नोइन्द्रियप्रत्यक्षामित्यत्र नोइन्द्रियपदस्य मनोर्थकत्वात्तन्निमित्तकं ज्ञानं प्रत्यक्षमेवेति, तदनागमिकं तत्र नोइन्द्रियपदस्येन्द्रियाभावार्थकत्वादन्यथाऽपर्या - शावस्थायामपि भाविनोऽवधिज्ञानस्यामनस्कप्रत्यक्षस्य चासग्रहप्रसङ्गादिति ॥ ४ ॥
नन्वेवं कृता सप्रसङ्गं विभागव्यवस्था, न चेयमुपपत्तिमती मतिश्रुतयोः स्वाम्यादिसाधर्म्यप्रतिपादनेन तदभेदशङ्काया एवोदयात् न च मेदगर्भसाधर्म्यज्ञानाश्च तदुदय इति वाच्यम्, असाधारण धर्मज्ञानेन तदुदयादित्यत आह
For Private And Personal Use Only
Acharya Shel Kailassagarsun Gyanmandir
इन्द्रियज
ज्ञानस्य प
रोक्षत्वक
थनमुत्सूत्रमिति प्रश्नप्रतिविधा
नम्, तत्रा
न्यदपि शङ्कासमाधानाम्यां
चर्चितम् ॥