________________
Shri Mahavir Jain Aradhana Kendra
श्रीज्ञान
बिन्दु प्रकरणम् ॥
११४ ।।
৬ন৬ল
/www.ketatirth.org
सामान्यविशेषाजहद्वृत्यैकोपयोगरूपतया ज्ञानदर्शनत्वमित्येकदेशिमतमुपन्यस्यति - "दंसणमुग्गहमेतं, घडोति निव्वन्नणा हवइ नाणं । जह इत्थ केवलाण वि, विसेसणं इत्तियं चैव ॥२- २१॥" अवग्रहमात्रं मतिरूपे बोधे दर्शनं, इदं तदित्यव्यपदेश्यं, घट इति निश्चयेन वर्णना तदाकाराभिलाप इतियावत् । कारणे कार्योपचाराच्च घटाकारा भिलापजनकं घटे मतिज्ञानमित्यर्थः । यथाऽत्रैवं (कं) तथा केवल योरप्येतावन्मात्रेण विशेषः । एकमेव केवलं सामान्यांशे दर्शनं विशेषांशे च ज्ञानमित्यर्थः । एकदेश्येव क्रमिकभेदपक्षं दूषयति- “ दंसणपुचं नाणं, नागणिमित्तं तु दंसणं णत्थि । तेण सुविणिच्छयामो, दंसणनाणा ण अण्णत्तं ॥ २-२२ ॥ " दर्शनपूर्व ज्ञानमिति उपस्थोपयोगदशायां प्रसिद्धम् । सामान्यमुपलभ्य हि पश्चात्सव विशेषमुपलभत इति, ज्ञाननिमित्तं तु दर्शनं नास्ति कुत्रापि तथाऽप्रसिद्धेः । तेन सुविनिश्चिनुमः 'दंसणनाणा' इति दर्शनज्ञाने नान्यत्वं न क्रमापादितभेदं केवलिन भजतइति शेषः । क्रमाभ्युपगमे हि केवलिनि नियमाज्ज्ञानोत्तरं दर्शनं वाच्यं सर्वासां लब्धीनां साकारोपयोग प्राप्त (प्य)त्वेन पूर्व ज्ञानोत्पच्युपगमौचित्यात् । तथा च ज्ञानहेतुकमेव केवलिनि दर्शनमभ्युपगन्तव्यं, तच्चात्यन्तादर्शनव्याहतमिति भावः । यत्तु क्षयोपशमनिबन्धनक्रमस्य केवलिन्यभावेऽपि पूर्व क्रमदर्शना राज्जातीयतया ज्ञानदर्शनयोरन्यत्वमिति टीकाकृद्वयाख्यानं, तत्स्वभावभेदतात्पर्येण सम्भवदपि दर्शने ज्ञाननिमित्तत्वनिषेधानतिप्रयोजनतया कथं शोभत इति विचारणीयम् । ननु यथा परेषां कल्पितः क्रमो वर्णनिष्ठो बुद्धिविशेषजनकतावच्छेदकोऽस्माकं च भिन्नाभिन्नपर्यायविशेषरूपः, तथा केवलिज्ञानदर्शननिष्ठस्तादृशः क्रम एवावरणक्षयजन्यतावच्छेदकः स्यादिति नोक्तानुपपत्तिरिति चेत्, न, वर्णक्रमस्य क्रमवत्प्रयत्नप्रयोज्यस्य सुवचत्वेऽप्यक्रमिकात्ररणक्षयप्रयोज्यस्य केवल्युपयोग क्रमस्य दुवैचत्वादनन्यगत्या क्रमिकादप्यावरणद्वपक्षयात् क्रमवदुपयोगोत्पत्यभ्युपगमे
For Print And Personal Use Only
Acharya Shri Kalassagarsun Gyanmandir
केवलज्ञानदर्शनयोंमें
दाभेदविचारे
एकदेशोयन
तेन मतिज्ञा
नदृष्टान्ततो ज्ञानदर्शनयो भेदविचारः क्रमिकपक्ष
निरासश्र
॥ ११४ ॥