________________
S
a
kanda
Acharya ShatkadassigaisanGyanmantire
मोक्षान-15 क्षायिकभावत्वेन नाशायोगाच्च । न च मुक्तिसमये क्षायिकचारित्रनाशवदुपपत्तिः क्षायिकत्वेऽपि तस्य योगस्थैर्यनिमित्तकत्वेन |
निमित्तनाशनाश्यत्वात् , केवलज्ञानस्य चानैमित्तिकत्वादुत्पत्तौ ज्ञप्तौ चाबरणक्षयातिरिक्तनिमित्तानपेक्षत्वेनैव तस्य स्वतन्त्रप्रमाणप्रकरणम्॥ त्वव्यवस्थिते, अन्यथा ' सापेक्षमसमर्थम्' इति न्यायात्तत्राप्रामाण्यप्रसङ्गात् । एतेन 'केवलदर्शनसामग्रीत्वेन स्वस्यैव स्वना
शकत्वमिति केवलज्ञानक्षणिकत्वम्' इत्यप्यपास्तम् , अनैमित्तिके क्षणिकत्वायोगात् , अन्यथा तत्क्षण एव तत्क्षणवृत्तिकार्ये नाशक इति सर्वत्रैव सूक्ष्म सूत्र नयसाम्राज्यस्य दुर्निवारत्वादिति किमतिपल्लवितेन ? । नन्वियमनुपपत्तिः क्रमोपयोगपक्ष एवेत्यक्रमौ द्वावुपयोगौ स्तामित्याशङ्कते मल्लवादी, "भवेद्वा समयमेककालमुत्पादस्तयोरिति” तत्रैकोपयोगवादी ग्रन्थकृत् सिद्धा न्तयति, हंदि ज्ञायतां, द्वावुपयोगी नैकदेति, सामान्यविशेषपरिच्छेदात्मकत्वात्केवलज्ञानस्य, यदेव ज्ञानं तदेव दर्शनमित्यत्रैव निर्भर।, उभयहेतुसमाजे समूहालम्बनोत्पादस्यैवान्यत्र दृष्टत्वान्नात्रापरिदृष्टकल्पनाक्लेश इति भावः । अस्मिन्नेव वादे केवलिन: सर्वज्ञतासम्भव इत्याह-"जइ सव्वं सायारं, जाणइ एकसमएण सव्वण्णू।।जुजइ सया वि एवं, अहवा सव्यं न जाणाइ।।२-१०॥" यदि सर्व सामान्यविशेषात्मक जगत्, साकार तत्तजातिव्यक्तिवृत्तिधर्मविशिष्टं। साकारमिति क्रियाविशेषणं वा । निरवच्छि- | बतत्तजातिप्रकारतानिरूपिततत्तद्वयक्तिविशेष्यतासहितं परस्परं यावद्र्व्यपर्यायनिरूपितविषयतासहितं वा यथा स्यात्तथेत्यर्थः । जानात्येफसमयेन सर्वज्ञः पश्यति चति शेषः, तदा सदापि सर्वकालं युज्यते,एवं सर्वज्ञत्वं सर्वदर्शित्वं चेत्यर्थः । अथवेत्येतद्वपरीत्ये, सर्व न जानाति सर्व न जानीयादेकदेशोपयोगवर्तित्वान्मतिज्ञानवदित्यर्थः । तथा च केवलज्ञानमेव केवलदर्शनमिति स्थितम्। अव्यक्तत्वादपि पृथग्दर्शनं केवलिनि न सम्भवतीत्याह-"परिसुद्धं सायारं, अविअत्तं दसर्ण अणायारं ।। ण य खीणा
केवलज्ञाननिरूपणे केवलज्ञानदर्शनयोरैक्यमित्यस्मि न्यक्ष एव सर्वज्ञतासम्भवस्य यु:
तित: साधनम् ॥
KAKKALA
Fat PW
And Penal Use Only