________________
LABE
सूयमिति प्रयोगेजतेश्च,एकाभिप्रायकत्वम्पदग्रहणे च तत्तदभिप्रायकशम्दत्वेन तपच्छान्दोघहेतुत्वमेव युक्तम् । अत एव 'वाफ्यादपि | द्रव्यार्यादेशावखण्डः,पदादपिच पर्यायादेशात् सखण्ड: शाब्दबोध' इति जैनी शास्त्रव्यवस्था । तस्माष शब्दस्यापरोक्षज्ञानजनकत्वम् एतेन"अपरोक्षपदार्थामेदपरशब्दत्वेनापरोक्षज्ञानजनकत्वं,अत एव शुक्तिरियमिति वाक्यादाहत्य रजतम्रमनिवृतिः, एवं च चैतन्यस्य वास्तवापरोक्षत्वादपरोक्षज्ञानजनकत्वं महावाक्यस्य" इत्यपि निरस्तम्, वास्तवापरोक्षस्वरूपविषयत्वस्व स्वनीत्या | तत्वमस्यादिवाक्ये सम्भवेऽपि 'दशमस्त्वमसि'इत्यादावसम्भवात्, निवृत्चाज्ञानविषयत्वस्य च शाब्दबोधात्पूर्वमभावात् यदा कदाचिभिवृचाज्ञानत्वग्रहणे पर्वतो बहिमानित्यादिवाक्यानामप्यपरोक्षस्वरूपविषयतयाऽपरोधज्ञानजनकत्वप्रसस्गात् “ यतो वा इमानि भूतानि जायन्ते' "सत्यं ज्ञानमनन्तं" इत्यादिवाक्यानामपरोक्षस्वरूपविषयतयाऽपरोक्षज्ञानजनकत्वे महावाक्यवैयापाताच्च ।। किवं घटोऽस्तीतिशाब्दे चाक्षुषत्वमप्यापतेव,अपरोक्षपदार्थाभेदपरशब्दादिवापरोक्षपक्षसाध्यकानुमितिसामग्रीतोऽपरोक्षानुमितिरपि च प्रसज्येत । एवं च मिन्नविषयत्वाद्यप्रवेशेनैवानुमितिसामग्या लाघवादलवच मिति विशेषदर्शनकालीनभ्रमसंशयोत्तरप्रत्यक्षमात्रोच्छेद इति बहुतरं दुर्घटम् । एतेन"प्रमात्रमेदविषयत्वेनापरोक्षज्ञानजनकत्वम्" इत्यपि निरस्तम् , 'सर्वज्ञत्वादिविशिष्टोऽसि इत्यादिवाक्यादपि तथाप्रसगात् , ईश्वरो मदभित्रः, चेतनत्वाद्, मद्, इत्यनुमानादपि तथाप्रसङ्गाचेति । "महावाक्यजन्यमपरोक्षं शुद्धनमविषयमेव केवलज्ञानम्" इति वेदान्तिनां महानेव मिथ्यात्वाभिनिवेश इति विभावनीयं सूरि(सुधी)भिः॥
हदमिदानी निरूप्यते-केवलज्ञानं स्वसमानाधिकरणकेवलदर्शनसमानकालीनं न वा,' 'केवलज्ञानक्षणत्वं स्वसमानाधिकरणदर्शनक्षणाव्यवीहतोचरत्वव्याप्यं न वा ?' एवमाद्याः क्रमोपयोगवादिनां जिनभद्रगणिक्षमाश्रमणपूज्यपादानां,
BAR
केवलज्ञाननिरूपणे वेदान्तिमत| खण्डनेऽपरोक्षाभेदपरत्वेन प्रमात्रमदविषयत्वेन च शब्दस्यापरोक्षज्ञानजनकत्वमितितत्पश्नपतिविधानं वेदान्तिमतखण्डनसमाप्तिः॥
R
DASTI