SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ S a kanda Achatya Sas s Gym श्रीज्ञान-15 IP एव प्रत्ययोऽनुभूयते ।उक्तंच सम्मती-"पज्जवणयवुकतं,वत्य दवट्ठियस्स वत्तव्यं ।।जाव दविओवओगो अपच्छिमवियप्पनिव्व- बिन्दु यणो ॥१-८॥ इति"। पर्यायनयेन व्युत्क्रान्तं गृहीत्वा विचारेण मुक्तं, वस्तु द्रव्यार्थिकस्य वक्तव्यं, यथा घटो द्रव्यमित्यत्र प्रकरणम् ॥ घटत्वविशिष्टस्य परिच्छिन्नस्य द्रव्यत्वविशिष्टेनापरिच्छिन्नेन सहाभेदान्वयासम्भव इति मृदेव द्रव्यमिति द्रव्यार्थिकप्रवृत्तिः, तत्रापि ॥ १०६॥ सक्ष्मेक्षिकायामपरापरद्रव्यार्थिकप्रवृत्तिर्यावद्रव्योपयोगः, न विद्यते पश्चिमे उत्तरे विकल्पनिर्वचने सविकल्पकधीव्यवहारौ यत्र स तथा शुद्धसङ्ग्रहावसान इति यावत्, ततः परं विकल्पवचनाप्रवृत्तेः इत्येतस्या अर्थः।। "तत्वमसि" इत्यादावप्यात्मनस्ततदन्यद्रव्यपर्यायोपरागासम्भवविचारशतप्रवृत्तावेव शुद्धद्रव्यविषयं निर्विकल्पकमिति शुद्धदृष्टौ घटज्ञानाद्ब्रह्मज्ञानस्य को भेदः। एकत्र सद्वैतमपरत्र च ज्ञानाद्वैतं विषय इत्येतावति भेदे त्वौत्तरकालिकं सविकल्पकमेव साक्षीति सविकल्पकाविकल्पकत्वयोरप्यनेकान्त एव श्रेयान् । तदुक्तम्-" सविअप्पणिव्विअप्पं, इय पुरिसं जो भणेज अविअप्पं । सविअप्पमेव वा णि-च्छएण ण स णिच्छिओ समए ॥१-३५॥ इति" न च निर्विकल्पको द्रव्योपयोगोऽवग्रह एवेति तत्र विचारसहकृतमनोजन्यत्वानुपपत्तिः, विचारस्येहात्मकत्वेनहाजन्यस्य व्युपरताकाङ्क्षस्य तस्य नैश्चयिकापायरूपस्यैवाभ्युपगमात्, अपाये नामजात्यादियोजनानियमन्तु शुद्धद्रव्यादेशरूपश्रुतनिश्रितातिरिक्त एवेति विभावनीयं स्वसमयनिष्णातैः । ब्रह्माकारबोधस्य मानसत्वे "नावेदविन्मनुते तं बृहंत वेदेनैव तद्वेदितव्यं" "तं त्वौपनिषदं पुरुषं पृच्छामि" इत्यादिश्रुतिविरोध इति चेत्, शाब्दत्वेऽपि “यद्वाचानम्यु. दितं," "न चक्षुषा गृह्यते, नापि वाचा," "यतो वाचो निवर्तन्ते" इत्यादिश्रुतिविरोधस्तुल्य एव । अथ वाग्गम्यत्वनिषेधकश्रुतीनां मुख्यवृत्याविषयत्वावगाहित्वेनोपपत्ति हदजहल्लक्षणयैव ब्रह्मणि महावाक्यगम्पत्वप्रतिपादनात्, मनसि तु मुख्यामुल्यभेदाभावात् केवलज्ञान निरूपणे वेदान्तिमतखण्डने नि विकल्पका बोवस्य | शुद्धद्रत्र्यनयादेशतासमर्थनेसाक्षि. तयादर्शिता यासम्मतिगाथाया अर्थः, निर्विकल्पकद्रव्यो पयोगस्व मानसत्कसमर्थनञ्च॥ १०६॥ Fat PW And Penal Use Only
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy