SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ S a kanda Acharya ShaikailassigarsanGyanmanttire केवलज्ञान R निरूपणे वे दान्तिमतखण्डने तत्र ब्रह्मज्ञानस्याज्ञाननिर्वत्त RUARBARMER चानुगतमिति निप्रकारकब्रह्मज्ञानस्यापि ब्रह्माज्ञाननिवर्तकत्वं लक्षणान्वयात् । न च सामान्यधर्ममात्रप्रकारकज्ञानेऽव्याप्तिः, इदमनिदं वा, प्रमेयमप्रमेयं वेत्यादिसंशयादर्शनेन (संशयाद्यदर्शनात्सामान्यमात्रप्रकारकाज्ञानानङ्गीकारेण) तदनिवर्तकस्य तस्यासङ्ग्रहादिति वाच्यम्, निष्प्रकारकसंशयाभावेन निष्प्रकारकाज्ञानासिद्ध्या निष्प्रकारकब्रह्मज्ञानस्यापि तन्त्रिवर्तकत्वायोगाव, एकत्र धार्मािण प्रकाराणामनन्तत्वे प्रकारनिष्ठतया निरखच्छिमप्रकारतासम्बन्धेनाधिष्ठानप्रमात्वेन तया तदज्ञाननिवर्तकत्वौचित्यात् । अधिष्ठानत्वं च भ्रमजनकाज्ञानविषयत्वं वाऽज्ञानविषयत्वं वाऽखण्डोपाधिर्वा ?, न च विषयतयैव तत्वं युक्तम्, प्रमेयत्वस्य च केवलान्वयिनोऽनङ्गीकाराम प्रमेयमिति ज्ञानाद् घटाद्याकाराज्ञाननिवृत्तिप्रसङ्ग इति वाच्यम्, द्रव्यमिति झानाचदापत्तरवारणात् । न च तस्य द्रव्यत्वविशिष्टविषयत्वेऽपि घटत्वविशिष्टाविषयत्वात्तद्वारणं, द्रव्यत्वविशिष्टस्यैव घटावच्छेदेन घटत्वविशिष्टत्वात्, सत्चविशिष्टब्रह्मवत्, विशिष्टविषयज्ञानेन विशिष्टविषयाज्ञाननिवृत्त्यभ्युपगमेऽपि च ब्रह्मणः सच्चिदानन्दत्वादिधर्मवैशिष्टयप्रसङ्गः । एतेन “ अन्यत्र घटाज्ञानत्वघटत्वप्रकारकामात्वादिना नाश्यनाशकभावेऽपि प्रकृते नमाझाननिवृत्तित्वेन ब्रह्मप्रमात्वेनैव कार्यकारणभावः, न तु ब्रह्मत्वप्रकारकेतिविशेषणमुपादेयं गौरवादनुपयोगाद्विरोधाच" इत्यपि निरस्तम्, विशिष्टब्रह्मण एव संशयेन विशिष्टाज्ञाननिवृत्त्यर्थं विशेषोपरागेणैव ब्रह्मज्ञानस्यान्वेषणीयत्वात् शुक्तिरजतादिस्थले - पि विशिष्टाज्ञानविषयस्यैवाधिष्ठानत्वं वलुप्तमित्यत्राप्ययं न्यायोऽनुसर्तव्यः । किं च ब्रह्मणो निर्धर्मकत्वे तत्र विषयताया अप्यनुपपनत्वाचीद्वषयज्ञानत्वमपि तत्र दुर्लभं, विषयता हि कर्मतेति तदङ्गीकारे तस्य क्रियाफलशालित्वेन घटादिवज्जडत्वापत्तेः, तद्विषयज्ञानाजनकत्वे च तत्र वेदान्तानां प्रामाण्यानुपपचिः । न च तदज्ञाननिवर्तकतामात्रेण तद्विषयत्वोपचारः, अन्योन्याश्रयात् । वे ब्रह्मणो ज्ञानविषयत्वासम्भवोपपादनम् ॥ Fat PW And Penal Use Only
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy