________________
Sara Kendra
Achatya Sas
s
Gym
केवलज्ञान
प्रकरणम्॥ १९९॥
ORDERNANCLASS
प्रकर्षजन्ये शास्त्रातिक्रान्तविषयेऽतीन्द्रियविषयसामर्थ्ययोगप्रवृत्तिसाधनेऽध्यात्मशास्त्रप्रसिद्धप्रातिभनामधेये च तरतमभावदर्शनात् । नन्वेवं भावनाजन्यमेव प्रातिभवत्केवलं प्राप्त, तथा चाप्रमाणं स्यात् , कामातुरस्य सर्वदा कामिनी भावयतो व्यवहितकामि
निरूपणे नीसाक्षात्कारवद्भावनाजन्यज्ञानस्याप्रमाणत्वव्यवस्थितेः, अथ न भावनाजन्यत्वं तत्राप्रामाण्यप्रयोजकं, किं तु बाधितविषयत्वं, केवलज्ञानभावनानपेक्षेऽपि शुक्तिरजतादिभ्रमे बाधादेवाप्रामाण्यस्वीकारात् , प्रकृते च न विषयबाध इति नाप्रामाण्य, न च व्यवहितकामिनीवि
स्थ भावनाभ्रमादौ दोषत्वेन भावनायाः क्लृप्तत्वातज्जन्यत्वेनास्याप्रामाण्यं, बाधितविषयत्ववदोषजन्यत्वस्यापि भ्रमत्वप्रयोजकत्वाव, तथा जन्यत्वे चोक्तं मीमांसाभाष्यकारेण-'यस्य(त्र) च दुष्टं कारणं यत्र च मिथ्येत्यादिप्रत्ययः स एवाऽसमीचीनो नान्य इति। वार्तिककारे
दोषोपदणाप्युक्तम-"तस्मादोधात्मकत्वेन,प्राप्ता बुद्धेःप्रमाणता।। अर्थान्यथात्वहेतूत्थ-दोषज्ञानादपोद्यते॥१॥इति"अत्र हि तुल्यवदेवाप्रा
शकः प्रश्न: माण्यप्रयोजकद्वयमुक्तं, तस्माद्बाधाभावेऽपि दोषजन्यत्वादप्रामाण्यमिति वाच्यं, भावनायाः क्वचिद्दोषत्वेऽपि सर्वत्र दोषत्वानिश्चयात् , अन्यथा शङ्खपीतत्वभ्रमकारणीभूतस्य पीतद्रव्यस्य स्वविषयकज्ञानेऽप्यप्रामाण्यप्रयोजकत्वं स्यादिति न किश्चिदेतत् , क्वचिदेव कश्चिदोष इत्येवाङ्गीकारात् , विषयबाधेनैव दोषजन्यत्वकल्पनाच, दुष्टकारणजन्यस्याप्यनुमानादेविषयावाधेन प्रामाण्याभ्युपगमात्, अन्यथा परिभाषामात्रापत्तेः। मीमांसाभाष्यवार्तिककाराभ्यामपि बाधितविषयत्वव्याप्यत्वेनैव दुष्टकारणजन्यत्वस्याप्रामाण्यप्रयोजकत्वमुक्तं न स्वातन्त्र्येणेति चेत्,मैवम्, तथापि परोक्षज्ञानजन्यभावनाया अपरोक्षज्ञानजनकत्वासम्भवात् । न हि वहथनुमितिज्ञानं सहस्रकृत्व आवृत्तमपि वह्निसाक्षात्काराय कल्पते। न चाभ्यस्यमानं ज्ञानं परमप्रकर्षप्राप्त तथा भविष्यतीत्यपि शङ्कनीय, लखनादकतापादिवदभ्यस्यमानस्यापि परमप्रकर्षायोगात् । न च लङ्घनस्यैकस्यावस्थितस्याभावादपरापरप्रयत्नस्य पूर्वपूर्वातिशयि- IF॥९९ ॥
CONCERCORECAKAKAR
Fat PW
And Penal Use Only