________________
S
a
kanda
Acharya ShatkadassigaisanGyanmantire
दिना-"प्रार्थनाप्रतिघाताभ्यां, चेष्टन्ते द्वीन्द्रियादयः॥ मनःपर्यायविज्ञान, युक्तं तेषु न चान्यथा ॥१॥" इति । न चैवं | ज्ञानस्य पञ्चविधत्वविभागोच्छेदादुत्सूत्रापत्तिा, व्यवहारतश्चतुर्विधत्वेनोक्ताया अपि भाषाया निश्चयतो द्वैविध्याभिघानवनय - विवेकेनोत्सूत्राभावादिति दिक् (इत्याहुः)॥ इतिमन:पर्यायज्ञानप्ररूपणम् ॥ | "सर्वविषयं केवलज्ञानम् ॥"सर्वविषयत्वं च सामान्यधर्मानवच्छिन्ननिखिलधर्मप्रकारकत्वे सति निखिलधर्मिविषयत्वम् । | प्रमेयवदिति ज्ञाने प्रमेयत्वेन निखिलधर्मप्रकारकेऽतिव्याप्तिवारणायानवच्छिन्नान्तं, केवलदर्शनेतिव्याप्तिवारणाय सत्यन्तं, विशेष्यभागस्तु पर्यायवाद्यभिमतप्रतीत्यसमुत्पादरूपसन्तानविषयकनिखिलधर्मप्रकारकज्ञाननिरासार्थः । वस्तुतो "निखिलजेयाकारवर केवलज्ञानत्व" । केवलदर्शनाभ्युपगमे तु तत्र निखिलदृश्याकारवचमेव",न तु निखिलनेयाकारवचमिति नातिव्याप्तिान च प्रतिस्वं केवलज्ञाने केवलज्ञानान्तरवृत्तिस्वप्राकालविनष्टवस्तुसम्बन्धिवर्तमानत्वाद्याकाराभावाइसम्भव:, स्वसमानकालीननिखिलजेयाकारववस्य विवक्षणात् । न च तथापि केवलज्ञानग्राह्ये आद्यक्षणवृत्तित्वप्रकारकत्वावच्छिन्नविशेष्यताया द्वितीयक्षणे नाशो, द्वितीयक्षणवृत्तित्वप्रकारकत्वावच्छिन्नविशेष्यतायाश्चोत्पादः, इत्थमेव ग्राह्यसामान्यविशेष्यताध्रौव्यसम्भेदेन केवलज्ञाने त्रैलक्षण्यमुपपादितमित्येकदा निखिल याकारवचासम्भव एवेति शङ्कनीयम् , समानकालीनत्वस्य क्षणगर्भवे दोषाभावात् , अस्तु वा निखिल याकारसङ्क्रमयोग्यतावचमेव लक्षणं,प्रमाणंच तत्रज्ञानत्वमत्यन्तोत्कर्षववृत्ति, अत्यन्तापकर्षववृत्तित्वात् परिमागत्ववद्'इत्याद्यनुमानमेव । न चाप्रयोजकत्वं ज्ञानतारतम्यस्य सर्वानुभवसिद्धत्वेन तद्विश्रान्तेरत्यन्तापकर्षोत्कर्षाम्यां विनासम्भवात् । न चेन्द्रियाश्रितज्ञानस्यैव तरतमभावदर्शनाचत्रैवान्त्यप्रकर्षों युक्त इत्यपि शक्कनीयं, अतीन्द्रियेऽपि मनोबाने शास्त्रार्थावधारणरूपे शास्त्रभावना
केवलज्ञान
निरूपणे तडक्षणाना
मुपदर्शनं तत्रातिव्याप्त्यादिदोपोद्धारश्र केवलज्ञाने प्रमाणोपदर्शनश्च ॥
KARO
Fat PW
And Penal Use Only