________________
Actiarva srul Kalassiansun Cranmandir
ShiMatiavr-Jain Arashna.kendra
RECE
skG
परिणामः कदाचिद्विशिष्टगुणप्रतिपल्या कदाचित्र तामन्तरेणैव स्यात्, भवप्रत्ययगुणप्रत्ययभेदेन तस्य द्वैविध्योपदर्शनात् ।। मनःपर्यायज्ञानावरणीयस्य तु विशिष्टसंयमाप्रमादादिप्रतिपच्चावेव तथास्वभावानामेव बन्धकाले तेषां बन्धनात, चक्षुर्दर्शनावरणादेरपि तत्चदिन्द्रियपर्याप्त्यादिघटितसामय्या तथापरिणामः । मतिश्रुतावरणाचक्षुर्दशनावरणान्तरायप्रकृतीनां तु सदैव देशघातिनामेव रसस्पर्धकानामुदयो न सर्वघातिनां, ततः सदैव तासामौदयिकक्षायोपशमिको भावौ सम्मिश्री प्राप्येते, न केवल औदयिक इति उक्तं पञ्चसमहमूलटीकायाम् । एतच्च तासां सर्वघातिरसस्पर्घकानि येन तेनाध्यवसायेन देशघातीनि कर्तुं शक्यन्ते इत्वम्युपगमे सति उपपद्यते, अन्यथा बन्धोपनीतानां मतिज्ञानावरणादिदेशघातिरसस्पर्धकानामानिवृत्तिबादराद्धायाः संख्येयेषु भागेषु गतेष्वेव सम्भवातदवोग मतिज्ञानाद्यभावप्रसङ्गा, तदभावे च तबललभ्यतदवस्थालाभानुपपत्तिरित्यन्योऽन्याश्रयापातेन मतिज्ञानादीनां मूलत एवाभावप्रसङ्गात् । एवं मतिश्रुताज्ञानाचक्षुर्दर्शनादीनामपि क्षायोपञ्चमिकत्वेन भणनात्सर्वघातिरसस्पर्धकोदये तदलामाद्देशघातिरसस्पर्धकानां चार्वागबन्धादध्यवसायमात्रेण सर्वघातिनो देशघातित्वपरिणामानभ्युपगमे सर्वजीवानां तल्लामानुपपचिरिति भावनीयम् । ननु यदि येन तेनाध्यवसायेनोक्तरसस्पर्धकानां सर्वघातिनां देशघतितया परिणामस्तदाग्दिशाय । तद्वन्ध एव किं प्रयोजनमिति चेत्, तरिक प्रयोजनक्षतिभिया सामग्री कार्य नार्जयंतीति वक्तुमध्यवसितोऽसि ? । एवं हि पूर्णे प्रयोजने दृढदण्डनुबं चक्रं न भ्राम्येत्, तस्मात्प्रकृते हेतुसमाजादेव सर्वघातिरसस्पर्घकबन्धौपयिकाभ्यवसायेन तद्धन्धे तत्तदध्यवसायेन सर्वदा तदेशघातित्वपरिणामे च बाधकामावः। तदेवं ज्ञानावरणदर्शनावरणान्तरायाणां विपाकोदयेऽपि क्षयोपशमोऽविरुद्ध इति स्थितम् । मोहनीयस्य तु मिथ्या
क्षयोपशमप्रक्रियायां चमत्यावर
रणादीनां सर्वघातिरसस्पर्धकान्यपि देशघातितयैवोपभुज्यन्ते तत्र च परकृतारेका तत्परिहारश्च ॥
C
MALAUGUAR
RECAREE